________________
Shri Mahavir Jain Aradhana Kendra
४७४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
इत्याह । म तदिति । घटज्ञानस्य यदि ज्ञानात्मत्वमेव तद्विषयत्वम्, तदा पटापेचयापि तत्तथैवेति तद्विषयत्वमपि स्यादित्याह । तथापौति । ननु जात्या तद्रूपत्वेपि स्वकारणातत्कचिप्तद्विषये सम्बद्धस्वभावं तज्जायत इत्याह । जात्यापौति । तर्हि भेदेपि तत एव नियमोऽस्त्वित्याह । मैवमिति ॥
रघु० टी० ० । स्वस्य स्वमम्वेदनमित्येवार्थो नोपेयत इत्याशङ्कते । न तत्कस्यचिदिति । तदुक्तम्
अथ
" विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्ममम्वित्तिरम्य या ऽजडरूपता ॥ इति । निराकरोति । तथापीति । जडम् स्वमादि । श्रन्धम् श्रसाचि । विज्ञानं स्वस्मिन्निव परस्मिन् बाह्येपि साचि स्यात्, तथा च तत एव सिद्धं बाह्यम्, श्रथ परस्मिन्नसाचि, स्वस्मिन्नपि माचि न स्यात्, तथा च परामाचिकं तन्न मियेत्, मानाभावात् । स्वपरामाचिकमपि विज्ञानं परमार्थमत्तत्वेन च व्यवहियते तर्हि बाह्यमपि स्वपरासाचिकमेव परमार्थमदस्तु व्यवह्नियतां च तत्त्वेनेति कुतो बाह्यार्थभङ्गः । बाधकात्प्रमाणा (भावा) दिति चेत्, बाधकं यदि स्वाविषयमपि बाधते तदा विज्ञानमपि बाधेत, श्रविशेषादिति कुतो विज्ञानवादः । स्वविषयमेव चेत्, कथं न परेण परसम्बेदनम् ॥
For Private and Personal Use Only