________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
गत्या रजतमेव तथा तदप्येकमपि ज्ञानं प्रतत्तया अनेकतया स्फुरदपि न वस्तुगत्या अनेकमेव ततः स्वरूपस्य विज्ञानम्यातत्तयानेकतया स्फुरणेपि भेदेन ग्राह्यग्राहकभावो भवत्येव, नास्मन्मते ग्राह्यलक्षणक्षतिरित्यर्थः । यदौति । अतत्ता अनेकता चित्र प्रत्यये स्फुरन्तौ यदि चित्रप्रत्ययात्मा भवेत्तदाय समाधिः स्यादपि, न त्वेवमेकस्य चित्रप्रत्ययस्याने कात्मकत्वमङ्गस्य दर्वारवादित्यर्थः । ननु तत्ता चेत् स्फुरति तदा मा स्वरूपमेव वाच्या अस्वरूपस्य स्फुरणानुपपत्तरित्याह । अस्वरूपस्येति । यद्यपीति । मर्वत्रास्वरूपमेव ग्राहकशान भिन्नमेव म्फरतौति ग्राह्ययाहकलक्षणं वक्ष्याम एवेत्यर्थः । अतदिति । अस्वरूपमनेकत्वमित्यर्थः ॥
भगौ० टौ. । यथेति । यथा रजततया भासमानापि शुक्रिन रजतमेव, न वा क्रिः शक्त्यनात्मतया भाममाना शुक्रर्मिना, तथा चित्रप्रत्ययस्य यद्यप्यनेकत्वं जानतादाम्यमेव तथाप्यनात्मतया भामत इत्यभेदान्न ग्राह्यलक्षणक्षतिरितर्थः । तथा च भिन्नत्वं ज्ञानस्य प्रकारो न विशेष्यम्, ग्राह्यत्वादिहेतौ च ग्रहण विशेष्यत्वं विवक्षितमतो नानेकान्त इति भावः । यदौति । विशिष्टज्ञाने विशेष्यवद्वि पोषणस्यापि विषयत्वा दे च तदभावात् तत्स्वरूपत्वमपि ज्ञानस्या वर्जनौयमित्यक एव दोष इत्यर्थः । अखरूपस्येति । भिन्नयोर्विषयविषयिभावे नियामकाभावा दित्यर्थः । यद्यपीति । तत्र नियामकं वक्ष्याम एव - - देन विषयत्वे कथमतत्ता ज्ञानभिन्ना तविषय इत्यपि दृश्यतामित्यर्थः ।
For Private and Personal Use Only