________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
आत्मतत्त्वविवेके सटौके
__ भगौ० टौ। ननु नौलपौताद्यात्मकस्खलक्षणेऽनेकत्वं नास्त्येव, अनेकाध्यवसायश्च व्यावृत्तिविषय एवेत्याह । अलौकादौति । जानाड्यावृत्तीनां भेदे कथं विषयत्वमित्याह । अतादात्म्य इति । अथैक ज्ञानाड्यावृत्तौनामभेदः, तबाह । तादात्म्य इति । एकज्ञानतादाम्ये व्यावृत्तीनां मानेकत्वमित्यर्थः । एकत्व इति। व्यावृत्तेरित्यनुषचनीयम् । उल्लेखोऽयमिति । ज्ञानविषयमात्रमनेकत्वं न पारमार्थिकमित्यर्थः, तथा च पारमार्थिकविषयत्वेन विशेषिताः महोपलम्भादयो हेतव इति नानेकान्ता इति भावः । स्वरूपमिति । अनेकत्वेन समं ज्ञानस्य तादात्म्यमतादात्म्यं वेत्यर्थः । किं विति । अपारमार्थिकस्य भेदे मति विषयत्ववत् पारमार्थिकेपि तदस्विति त्वयेव्यताम्, भेदे ग्राह्यलक्षणानुपपत्तेर्वाधिकाया प्रभावादित्यर्थः । भ्रान्तिरिति । हेतषु प्रमारूपं जान विवक्षितमिति मानकान्तिकमिति भावः । तस्थामपौति । प्रचापि पूर्वाक एव भावः ॥
रघु • टौ । भवतां नौलपौतादिरूपविलक्षणचित्ररूपवदमाकं नौलाद्याकार विलक्षणो विज्ञानस्य चिचाकारः, तस्य चैकत्वेष्यमौलाकाराद्यनेकव्यावृत्तिनिबन्धनस्तत्रानेकत्वोल्लेख इत्यभिमन्धि प्रकाशयति । अनौलेति। ता अपि व्यावृत्तयो विज्ञानाशिना न वा । भिनाश्चेत्, कथं विज्ञानेन तद्वतः। भटहोतानां च तासां न भेदाध्यवसायनिमित्तत्वम् । अभिन्नाश्चेत्, कथमेकजानाभिबानां तासामनेकत्वम् । एकत्वे च कथं तत्कतो भेदाध्यवसाय
For Private and Personal Use Only