________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४६५
“यदि स्वरूपमाकाराचित्रतेकधियः कथम् । भेदः प्रत्यर्थता बुद्धेस्तदाऽन्योन्यस्य वेदनम् ॥ मिथस्तथापि व्यावृत्तौ बाह्यवस्तु क्षणस्थितिः । भेटेप्येवं धियस्तेषां प्रकाशघटना कथम" ॥
इत्याशङ्ख्याह
"जोकमन्यत्वेऽपौदं व्यावृत्त्यन्तरमौरितम्" । तदेतत्परिहरति । अतादात्म्य इति । व्यावृत्तयो यदि ज्ञानभिन्नास्तदा कथं प्रकाशन्ताम् । ज्ञानाभिन्ना एव चेत्तदा ज्ञानाभेदेन तामामप्यभेद एवेति व चित्राकारत्वम् । नन्वस्तु व्यावृत्तीनामप्यभेद एवेत्याह । एकलेपौति । तथा चाने कत्वाध्यवमायमात्रत्वं त्वनुआनीम इति रनकौः खवचनविरोध इत्यर्थः । ननु प्रतिशब्दवदवास्तव एवायमुनेखो न तु वास्तवो येनानेकत्वं तदनुरोधात् ज्ञानस्य भवेदित्याशङ्कते। उल्लेखोयमिति । न पुनरिति । अनेकत्वमेव न वस्तुमिद्धं यच्चित्राकारे ज्ञाने त्वयाऽऽपाद्यत इत्यर्थः । परिहरति । स्वरूपमिति । यदनेकत्व मुल्लिख्यते तद्यदि ज्ञानस्वरूपमेव तदा ज्ञानस्यानेकत्वमवर्जनौयम् । प्रथास्वरूपं ज्ञानाभिन्नमेव ज्ञानेनोलिख्यते तदा भेदेपि ग्राह्यग्राहकभाव इति मिद्धं न: ममौहितमित्यर्थः । त्वयेति । तवेदमत्यन्तमनिष्टमित्यर्थः । असाविति । अनेकत्वावगाही चित्रप्रत्यय इत्यर्थः । भ्रान्तिरपि हि ज्ञानमेव । तत्रापि पूर्वाको विकल्यम्तदवस्थ एवेत्यर्थः ॥
59
For Private and Personal Use Only