________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
यात्मतत्त्वविवेके सटौके
___ भगौ० टी० । ननु बाधकब लादेकत्वानेकत्वयोधर्मायोमिथो विरोधेनैकवाभावेपि धर्मिस्वरूपेण ज्ञानस्याभेदोऽस्त्वित्यत आह । हिनस्त्विति । तदिदं मस्योपचयाय तणे निराकर्तव्ये बर्बरेण सस्यमपि निराकृतमितिवदित्याह । तदिदमिति । तत् स्पष्टयति । नियतेति ॥
रघ० टौ । शङ्कते। हिनस्त्विति । प्रकाशमानता अनेकत्वमिति भेदग्राह्यत्वायोगात्(१) । प्रकाशमानता एकत्वेन प्रकाश इत्यन्ये । प्रकाशस्वरूपरक्षणायैकत्वानेकवनिराकरणन, तस्मिंश्च मति प्रकाशखरूपमेव न स्यादित्याह । तदिदमिति । भौतैः अनभिजैः । तदेव यत्पादयति । नियतेति । नबित्नौ नियतानियताकारस्वरूपैकत्वानेकत्वनिवृत्तौ । निराकारमेवेति । तथा च नौलाद्याकारप्रकापास्वरूप इति यदन तयाहतमिति भावः ॥
स्यादेतत् । पारमार्थिको विरुधर्माध्यासो भेदहेतुरयं काल्पनिक इति चेत्. एवं तर्हि मुतरामयत्नसिद्धं स्फटिकवरोधस्य निराकारशुद्धत्वम्, आकारनिकरस्त्वनात्मेव स्फुरतीत्युभयथैव कालात्ययापदिष्टाः सहोपलम्भादयः।
(१) ग्राह्यत्वारोपात् इति ३ पु० पा० ।
For Private and Personal Use Only