________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
भावमाधारणस्य प्रागभावत्वस्य परनये ध्वंसप्रागभावोभयमाधारणस्य कादाचित्काभावत्वस्य वा दुर्वचत्वे ऽपि न क्षतिः । परमते चणिकत्वेनाभिमतानां शब्दादौनामपि स्वाधिकरणध्वंसात्मकस्थलकालवृत्तिध्वंसप्रतियोगिनि स्वोत्पत्तिक्षणे वर्तमानत्वात् बाधवारणाय क्षणत्वेनोपादानम् । क्षणत्वं च भावत्वम् । न्यायनये च खाधिकरणमहाकालात्मकभावमादायैव महाप्रलये प्रसिद्धिः । न च क्षणत्वस्य भावत्वरूपत्वे सर्वेषामेव खाधिकरणदण्डाद्यात्मकभावरूपस्थलकालवृत्तिध्वंसप्रतियोगिनि खोत्पत्तिक्षणे वर्तमानत्वात् बाधतादवस्थ्यमिति वाच्यम् । परनये भावमात्रस्यैव चणिकत्वात् भावात्मकस्थलकालस्याप्रमिद्धेः । ध्वंसस्याप्यस्थिरत्वेन क्षणत्वमनुपादेयमेव । अन्यत् सर्व पूर्ववदवसेयम् । न च क्षणिकत्वद्वयस्यैव स्वत्वघटितत्वात् स्वत्वस्य चाननुगतत्वात् व्यभिचार इति वाच्यम् । प्राचां नये स्वत्वस्यानुगतत्वात् । केचित्तु खोत्पत्त्यव्यवहितोत्तरकालौनध्वंस )प्रतियोगित्वं चणिकत्वम् । एतच्च न्यायनये ऽन्त्यशब्दे प्रसिद्धम् । खोत्पत्त्यव्यवहितोत्तरत्वं च खाधिकरणसमयध्वंसाधिकरणसमयध्वंसानधिकरणत्वे सति स्वाधिकरणसमयध्वंसाधिकरणत्वमित्याहुः। तदसत्(२) । नव्यनैयायिकमते ऽन्त्यशब्दस्यापि क्षणद्वयावस्थायित्वादप्रसिद्धः। यथा घट इति प्रमाध्याङ्गको दृष्टान्तः। नैयायिकैर्घटस्य क्षणिकत्वानभ्युपगमात् । न च परनये ऽवयविनोऽनभ्युपगमात् कथं घटस्य
(१) कालिकध्वंस-पा० २ पु० । (२) तन्मन्दम्-पा० २ पु० ।
For Private and Personal Use Only