________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
तृतीयक्षणोत्पन्न(१)क्षणदयावस्थायिनि अन्यभावेंशतः सिद्धसाधनं दुर्वारम् स्वाधिकरणसमयस्य स्खोत्पत्तिक्षणस्य प्रागभाववति क्षणे तस्यावृत्तेः। न च स्वाधिकरणसमयस्य खद्वितीयक्षणस्य प्रागभाववत्युत्पत्तिक्षण एव वर्तमानत्वात् न सिद्धसाधनावकाश इति वाच्यम्। तदानौं विनश्यदक्स्थक्रियाव्यक्तरेव द्वितीयक्षणतया तत्प्रागभावाधिकरणे ऽपि तस्थावर्तमानत्वात्। न च तदुत्तरोत्पत्रध्वंमोऽपि तद्वितीयक्षण: तस्य प्रतियोगिरूपप्रागभावाधिकरणे खोत्पत्तिक्षण एव वर्तमानत्वात् न सिद्धसाधनावकाश इति वाच्यम् । प्रतियोगिनो भावत्वे प्रागभावत्वविरहात् । न च प्रागभावत्वं विहाय ध्वंसत्वेनैव विशेषणीयमिति वाच्यम्। तथा मति न्यायनये महाप्रलये प्रसियसम्भवात् । न च पक्षतावच्छेदकावच्छेदेन माध्यमिद्धेरुद्देश्यत्वात् नांशतः सिद्धसाधनं दोषायेति वाच्यम् । तथा सति अंशतः सिद्धसाधनवारणाय विवादाध्यासितत्वविशेषणवैयर्थ्यापत्तेरिति । मेवं भावाभावमाधारणप्रागभावत्वस्यात्र प्रवेशात् प्रागभावत्वं वा विहाय(२) कादाचित्काभावत्वेन वा प्रवेशनीयम् । तथा चान्यभावस्य खाधिकरणममयस्य स्वोत्पत्तिक्षणस्य ध्वंमरूपकादाचित्काभाववति द्वितीयक्षणे वर्तमानत्वेन सिद्धसाधनानवकाशात् । यदा खाधिकरणक्षणवृत्तिध्वंसप्रतियोग्यवृत्तिवं चणिकत्वम् एतदपि न्यायनये महाप्रलये प्रसिद्धम् । एवं च प्रागभावानभ्युपगमे भावा
(१) व्यवहितपूर्वटतीय क्षणोत्पन्न-पा० २ पु० । (२) प्रागभावत्वमपहाय-या० २ पु० ।
For Private and Personal Use Only