________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
आत्मतत्त्वविवेके सटीके
कालिको वनव्या अन्यथातीतगोचरज्ञाने व्यभिचारापत्तेः। तस्य खाधिकरणममयप्रागभावाधिकरणे ऽतौते विषयत्वाव्याप्यत्वादिसम्बन्धेन वृत्तेः घटे ज्ञानमित्यादिप्रत्ययादिह हेतावुपाधिर्नेह हेतावुपाधिरित्यादिप्रत्ययाच विषयत्वाव्याप्यत्वसम्बन्धस्यापि वृत्तिनियामकत्वात् स्वात्मकखाधिकरणसमयप्रागभावाधिकरणकपालादावुपादानत्वाख्यस्वरूपसम्बन्धेन वर्तमानतया घटादौ व्यभिचारापतेश्च । महाप्रलयस्यापि स्वाधिकरणममयप्रागभावाधिकरणे ध्वंसात्मकस्थलकालोपाधौ महाकाले च वर्तमानत्वात् न्यायनये ऽप्रसिद्धिवारणाय क्षणत्वेन प्रवेशः । क्षणत्वं च स्पन्दत्वम् । न च क्षणत्वस्य स्पन्दत्वरूपत्वे परमते क्षणिकत्वेनाभिमताना(१) शब्दादौनामपि खाधिकरणसमयप्रागभावाधिकरणखोत्पत्तिक्षणवृत्तिक्षणचतुष्टयावस्थायिविनश्यदवस्थस्पन्दव्यक्तौ वर्तमानत्वाद् बाधापत्तेरिति वाच्यम् । परमते भावमात्रस्यैव क्षणभङ्गुरतया स्पन्दस्यापि क्षणचतुष्टयावस्थायित्वविरहात् । न चैवं परमते स्पन्दत्वेनोपादानं व्यर्थम् व्यावर्तनीयस्थ महाकालस्यापि स्थैर्यविरहात् प्रागभावस्य च स्थिरत्वे ऽपि अकालत्वादिति वाच्यम् । परमते(२) स्थिरध्वंसमादायाप्रसिद्धिवारणाय तत्मार्थक्यात् माध्ये उपरञ्जकविशेषणस्याप्यदोषत्वाच । नन्वेतादृशक्षणिकत्वस्य माध्यत्वे महाप्रलयस्यापि पक्षतया तत्र नैयायिकानामंशतः सिद्धमाधनासम्भवे ऽपि महाप्रलयाव्यवहितप्राक्
(१) क्षणिकत्वेनाभिप्रेताना-पा० २ पु० । (२) परन ये--पा० १ पु० ।
For Private and Personal Use Only