________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
चोरनभ्युपगमाच्च । परेषामुत्तरपदार्थस्यैव पूर्वपदार्थध्वंसरूपत्वात् । न चातिरिक्रानन्तध्वंसानभ्युपगमे ध्वंसाप्रतियोगित्वरूपस्य नित्यत्वस्याप्रसिद्या श्रात्मनो नित्यत्वे चणभङ्गस्य बाधकत्वासम्भवः परेण नित्यपदार्थान्तरस्यानभ्युपगमात् तदभ्युपगमे तत्रैव व्यभिचारापत्तेरिति वाच्यम् । श्रसत्ख्यातिवादिनां तेषामलोक एव तादृशनित्यत्वप्रसिद्धिसम्भवादित्याजः । चणिकत्वं च स्वाधिकरणममयप्रागभावाधिकरणचणावृत्तित्वम् एतच्च न्यायनये महाप्रलये प्रसिद्धम् । वपदं चणिकत्वेनाभिमतपरम् न त्ववृत्तित्वप्रतियोगितादृशचणवृत्तिपरम् । परेषां ध्वंसस्यातिरिक्तस्थानभ्युपगमेन स्वाधिकरणसमय प्रागभावाधिकरणवृत्तेरप्रसिद्धेः सन्मात्रम्य चणिकत्वात् अलोकस्य च कालमात्रावृत्तित्वात् । श्रात्मादेः कालिकसम्बन्धेनावर्तमानत्वमुपादायार्थान्तरापत्तेश्च । श्रत एव तादृशक्षणिकत्वस्य श्रात्मनः कालिकसम्बन्धेनावृत्तित्वे ऽपि सम्भवात् ध्वंसाप्रतियोगित्वरूपनित्यत्वे न बाधकमिति परास्तम् । परनये आत्मनो - ऽयुत्पत्तिमत्वेन कालिकसम्बन्धेन वर्तमानतया स्वपदस्य चणिकत्वेनाभिमतपरत्वात् । समयपदं च कालिकसम्बन्धेन स्वाधिकर णत्वलाभाय । अन्यथा अनागतगोचरज्ञाने व्यभिचारापत्तेः तस्य विषयत्वाव्याप्यत्वादिसम्बन्धेन स्वाधिकरणस्यानागतस्य प्रागभावाधिकरणे खोत्पत्तिचणे वृत्तेः । प्रागभावाधिकरणत्वमपि कालिकसम्बन्धेन विवचितम् । श्रन्यथा सर्वेषामेव विषयित्वा व्याप्यत्वादिसम्बन्धेन स्वाधिकरणसमयप्रागभावाधिकरणे समयप्रागभावविषयक स्वसमानकालोपनज्ञानात्मकचले वृत्तेर्बाधापत्तेः । श्रवृत्तित्वमित्यत्र वृत्तिरपि
For Private and Personal Use Only