________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
दृष्टान्तवमिति वाच्यम् । अवयविनोऽनभ्यपगमे ऽपि विलक्षणसंस्थानापन्नपरमाणुपुञ्जात्मकस्य घटस्यैव दृष्टान्तत्वात् । केचित्त अमन्नेवावयविरूपो घटो व्यतिरेकदृष्टान्त इत्याहुः । तदमत् अन्वय्युदाहरणे व्यतिरेकदृष्टान्तोपन्यासस्य कथकसम्प्रदायविरुद्धत्वात् परैर्व्यतिरेकसहचारेणान्वयव्याप्तिग्रहानभ्युपगमाच्च । यद्ययात्मनः चणिकत्वसाधनस्यैव प्रकृततया अात्मत्वेनैव पक्षत्वमुचितम् तथापि प्रसङ्गात् सन्मात्रस्यैव क्षणिकत्वसाधनात् शब्दादित्वेन पक्षनिर्देशः । शब्दादित्वं च शब्दविषयकबुद्धिविषयत्वम् । मदसतोरेकज्ञानाविषयत्वान्नालौकमाधारण्यम् । मत्त्वमेव वा शब्दादिलम् । पचतावच्छेदकस्य हेतुत्वेऽपि क्षतिविरहात् । न च शब्दादित्वस्य पक्षतावच्छेदकत्वे घटस्थापि पक्षान्तर्गतत्वात् कथं दृष्टान्तत्वमिति वाच्यम् । पक्षतावच्छेदकवतो दृष्टान्तवे विरोधाभावात् । ननु तथापि विवादाध्यासितत्वविशेषणवेयर्थम् । न च नैयायिकमते महाप्रलये अंशतः सिद्धसाधनवारणाय तदुपादानमिति वाच्यम् । परेण महाप्रलयानभ्युपगमात् तत्रांशतः मिद्धसाधनवारणाय विशेषणोपादानस्यानुचितत्वादिति चेन्न । अन्त्यशब्दे प्राचां नैयायिकानामंशतः सिद्धसाधनवारणय तदुपादानात् तदर्थमुपात्ते च तस्मिंस्तत एव महाप्रलये ऽप्यंशतः मिद्धसाधनानवकाशात् । स्वरूपकथनं वा विवादाध्यासितपदं पक्षतावच्छेदकावच्छेदेन माध्यसिद्धेरुद्देश्यत्वाच्च महाप्रलये अंशतो नेयायिकानां मिद्धमाधनानवकाशः । केचित्तु पक्षतावच्छेदकवतो दृष्टान्तत्वानभ्युपगमेन दृष्टान्तातिरिकस्य पक्षत्वलाभाय तदुपादानमित्याः । न च तथापि प्रतिज्ञाद्यप्रयोगात् न्यूनत्वमिति वाच्यम् ।
For Private and Personal Use Only