________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटोके
इदमग्रे वक्ष्यमाणम । पक्षतयाऽभिप्राय विकल्प यति । परमार्थेति । नौलादि स्व ग्राहकज्ञानजातीयमलोकमेव वेति विकन्यार्थः । अत्र प्रमेयत्वं जानत्वव्याप्यं न वा, विवादपदं नौलादि ज्ञानत्वाश्रयो न वा, ज्ञानत्वं प्रमेयत्वव्यापक न वा, ज्ञान विषयता जानत्वानाश्रये वर्तते न वेति विप्रतिपत्तयः ॥
भगौ• टौ । द्वितीयमात्मनि बाधकं शङ्कते। विज्ञानवादिनौति । जागरूक इत्यनेन क्षणभङ्गनिरासेपि न तनिराम इति दर्शितम् । बाह्य ज्ञानविभिन्नमेव वस्तु नास्ति तद्विशेषस्यात्मनः कुतः मिद्धिरित्यर्थः । म विज्ञानवादी। इदं वक्ष्यमाणं पक्षत्रयम् । कि त इति । ग्राह्यं पारमार्थिकमलोकं वा । श्राद्यपि ग्राहक ज्ञानव्यक्तय भिन्नं तयोर्भदे मत्येव ज्ञानजातीयं वेति विकल्पार्थः । प्रमेयत्वं ज्ञानत्वव्याप्यं न वा। कोटिः परम्यालो के प्रमिद्धा । विवादपदं ज्ञानत्वाश्रयो न वेति विप्रतिपत्तिः ॥
रघ• टौ । बाह्यार्थभङ्ग द्वितीयं बाधकमाशङ्कते। विज्ञान वादिनीत्यादि । बाह्यं ज्ञानभिन्नं श्रात्मापि च बाह्यभेद एवेति भावः । अत्र ज्ञानत्वं प्रमेयत्वम्य सत्त्वस्य वा व्यापकं न वेति विप्रतिपत्तिः । अलोकस्य ग्राह्यत्वेपि न प्रमेयत्वं तदंश ज्ञानस्याप्रमात्वादिति मन्प्रदायः । एतज्ज्ञानविषयो नौला दिरेत ताना भिन्नो न वेति नव्याः ।
For Private and Personal Use Only