SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादप्रारम्भः ॥ विज्ञानवादिनि जागरूके बाह्यमेव नास्ति कुत आत्मेति चेत् । स तावदिदं पृष्टो व्याचष्टां किं ते ग्राह्यग्राहकभागयोः परमार्थसतोरेवाभेदो विवक्षित उताहो अभिन्नजातीयत्वम् अथ ग्राह्यांशस्यालीकत्वमिति । शङ्क० टौ० । द्वितीयमात्मनि बाधकं निराकर्त्तुमुत्थापयति । विज्ञानेति । जागरूक इति । बाह्यनौलादिस्थैर्यसिद्धावपि न तेषां वस्तुत्वम्, वस्तुत्वेपि न ज्ञानभिन्नत्वम् । ज्ञानं च चणमाचस्थायि नीलपीताद्याकार मिति योगाचारः । मिध्यतु स्थैय्यं तथा च सिद्धं नः ममोहितं तच स्थिर चिदानन्दस्वरूपं . ब्रह्मैव, बाह्यं तु नौलादिप्रपञ्चमाचमलोकमनाद्यविद्याकारनिकरप्रतिभासमात्रमित्येकदण्डिनः । एकमेव विज्ञानं परमार्थसत्र तु मौलाद्यपि वस्तुमत् परं त्वनादिवासनापरीपाकमाचामादितनौलाचाकारनिकरकरम्बितमत एव तचित्रमित्युच्यत इति तदेकदेशिनः । तदेतेषां जागरूकतया क्व बाह्यस्यात्मन: सिद्धिशङ्का । भेदे मति ग्राह्यग्राहकभाव एव नास्ति न वा धर्मधर्मभाव इति भावः । बाह्यमेवेति । सामान्याभावे विशेषाभावस्य सुलभत्वात् । ज्ञानानात्मकस्य सर्व्वस्यैव बाह्यत्वादिति भावः । स विज्ञानवादी । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy