________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
कारोऽन्यव्यावृत्ताकारो विकल्पनिष्ठ इत्यूकम् । अथाध्यवसायाच्छन्दैः किं वायमिति प्रश्नस्तदाऽन्यापोढस्य यत् स्वलक्षणं व्यावृत्तिम्तयत इत्युत्तरम् । प्रतिभासाध्यवसायौ तु प्रागुनो । तत्त्वत: किं वायमिति प्रश्न न किञ्चिदम्तु वायमित्युत्तरमित्यर्थः । अत्र दूषणमाह । तति । विकल्पस्थाकारे न शक्रि: किन्तु बाध इत्यशक्यस्यैवाकारस्य सङ्केतविषयत्वसञ्चार इत्यर्थः । प्रवृत्तौति । स्खलक्षणे प्रवृत्त्यभावप्रसङ्गः व्यावृत्तौ च शब्दस्य स तात्तस्य जानाभावादज्ञाते च प्रवृत्तावतिप्रमादित्यर्थः । विरोधमेवाह । अस्यैवेति । अपोहवादो नाम्लरमिति परिभावयन् प्रकृतमुपसहरति । तस्मादिति ॥
रघु० टौ । प्रतिभामो ज्ञानजननम्, शब्दजन्यजानविषयः क इति प्रश्न अतड्या वृत्तो विकल्पनिष्ठ प्राकार इत्युत्तरम् । अध्यवसायः प्रवृत्तिजननम् । शब्दजन्यप्रवृत्तिविषयः क इति प्रश्ने च अतयावृत्तं वचक्षणामिति। तत्त्वतो वस्तुतः किं वस्तु शब्दवाच्यमिति प्रश्नच न किञ्चिदिति। विपर्यासो बाह्यविषयिण्याः शक्रेर्विकल्पाकारे सञ्चारः। प्रवृत्तिविपर्ययः नियत विषयकप्रवृत्यनुपपत्तिनियामकाभावात्, भेदाग्रहादेर्नियामकत्वस्य निरस्तत्वात् । अस्यैवेति । किमपि वस्तु न शब्दवाच्यमित्यस्यार्थम्य वस्तुघटितमूर्तिकत्वादिति ॥
॥ इति क्षणभङ्गवादः॥
For Private and Personal Use Only