SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२० आत्मतत्त्वविवेके मटौके च भावनावशात् स्मृत्यपनौतकामिन्यां पुरोवर्तित्वारोपस्तत्र च दर्शनत्वारोप इति मतेन । भावनापरिपाकवना द्योगिनामात्मनौव कामातरम्य कामिन्या निर्विकल्पक मिति मतेने दम् तथा च यथाश्रुत एव माधौय इत्यपि कश्चित् । यदा च भावनावशात्पुरोवर्तिलतादावेव कामिनीत्वारोप इति मतं तदापि निर्विकल्पकत्वापेक्षया लाघवेन माक्षात्कारित्वमेवेन्द्रियजन्यतावच्छेदकमिति (१)मन्तव्यम् । केचित्त अन्यथेति । साक्षात्कारित्वे सत्यप्यनिन्द्रियजन्यत्व इत्यर्थः । अथेन्द्रियजन्यत्वाधीनं न मविकल्पकम्य माक्षात्कारित्वमपि तु निर्विकल्पकजन्यत्वाधीनमत शाह । कामातुरेति । लतादौ कामिन्यारोपस्य विनापि . निर्विकल्पकमिन्द्रियजन्यतामात्रेण माक्षात्कारित्वादित्यर्थ इत्याहुः । तच्चिन्यम् । भवेदेवं यदि मविकल्पकस्य माक्षात्कारित्वं स्वाभाविकं भवेत् न त्वेतदस्ति निर्विकन्य कमाक्षात्त्वस्य तत्रारोपादित्यत आह । बाधकाभावाचेति । दर्शनं निर्विकल्पकम् । व्यापारो धर्मः । उपाधीयत इत्यपाधिरारोपः । विपर्ययो विकल्पधर्मस्य माक्षात्वस्य निर्विकल्प के समारोपः। अथ समनन्तरप्रत्यय एव विकल्पजनको नेन्द्रियम्, म च माक्षात्कारौति करणमारूण्या द्विकल्पोपि माक्षात्कारौत्यत्राह । इन्द्रियमिति । विपरीतस्यामाक्षात्कारिविकल्पम्यानुत्पत्तिप्रसङ्गात्म (१) नित्येश्वरप्रमाभ्यपगमेत्वक्षममुत्थत्वादेः प्रामाण्यव्यापकत्वसम्भवे नेति इत्यधिकः पाठः ३ । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy