________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभजवादः।
शङ्क० टी० । मूलविकल्पदये द्वितीयं विकल्प दूषयति । नापौति । ज्ञानतो बाधकमिति कोऽर्थः । किं सामान्यविषयं ज्ञानमेव नास्ति अकारणकं वा नानाविषयकं वा परोक्षाकारं वा निर्दिषयत्वेनाप्रमारूपं वा अनिन्द्रियजं वा असाक्षात्कारि वा । तत्र नाद्य इत्याह। तत्वरूपेति। द्वितीयं दूषयति । कारणेति । तौये त्वाह । एकत्वेति । चतुर्थं दूषयति । पारोक्ष्येति । विषये तावन्न पारोक्ष्यं नाप्यपारोक्ष्यं तदुभयस्य ज्ञानधर्मत्वात् । तथा च जातिगोचरजानमिन्द्रियजमपरोक्षमेवानिद्रियजं तु परोक्षमिति नैतत् जातो बाधकमित्यर्थः । पञ्चमं दूषयति । विषयमिति । विषयप्रतिक्षेपाधौनो हि प्रामाण्यप्रतिक्षेपः स च प्रकृते नास्तीत्यर्थः । षष्ठं दूषयति । इन्द्रियजेति । सप्तमं दूषयति । मातादिति । अयं गौरित्यादिविकल्पानां साक्षात्वमनुभवसिद्धमतोपौन्द्रियजत्वमित्यर्थः ॥
भगौ० टौ। नन्वनुगतधर्मज्ञानस्यानुपस्तम्भो बाधकः स्थादित्यत आह । नापीति । पूर्व ज्ञानविषयस्यैवानुपलब्धिनिरस्ते त्यपौनरुक्त्यम् । कारणेति । अनुगतधर्मज्ञानरूपकार्य्यस्य तत्कारणं विनानुपपत्तेरित्यर्थः । ननु विरुद्धधर्माध्यामादेकत्वं तत्र बाधितमित्याह । एकत्वेति । ननु मामान्य नैकं व्यक्तिभेदेन प्रत्यक्षानुमानविषयतया तत्र पारोक्ष्यापारोक्ष्यविरुद्धधर्माध्यामादित्यत पाह। पारोक्ष्येति । पारोक्ष्यापारोक्ष्ये विषयिणो धर्मो न विषयस्य, तथाविधज्ञानविषयत्वादेवार्थ तयवहारादित्यर्थः ।
For Private and Personal Use Only