SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ आत्मतत्त्वविवेके सटीके विरुद्धस्तथाऽनेकवेकसम्बन्धोपौत्यर्थः । तथापि माधकाभाव एव बाधकः स्यादित्यत श्राह । एकानेकयोरिति । एकव्यवहारोऽनुगतव्यवहारः । यथामङ्ख्यमन्वयः । तथा सानन्यथा सिद्धानुगतप्रत्यक्षमेव तत्साधकमित्यर्थः ॥ रघु० टौ० । एकस्य विज्ञानस्य यथानेकविषयसम्बन्धित्वं यथा चानेकस्य विषयस्यैकविज्ञानसम्बन्धित्वं तथैकस्य सामान्यस्याने कपिण्डसम्बन्धित्वं अनेकस्य पिण्डस्यैकमामान्यमम्बन्धित्वं न विरुध्यते, मानाभावात्, अन्तरेण चैकधर्ममनेकेष्वेकव्यवहारो न मम्भवति कारणाभावादन्यथाऽतिप्रसङ्गाचेत्याह । एकस्येत्यादि । एकेति । यथा एकस्मादने कव्यवहारो नोपपद्यते तथाने केभ्योप्येकव्यवहारो नोपपद्यत इत्यर्थः ॥ नापि ज्ञानतो बाधकम्। तत्स्वरूपप्रतिक्षेपस्यानुभवबाधितत्वात् । कारणप्रतिक्षेपस्य च जन्मनैवापास्तत्वात्। एकत्वप्रतिक्षेपस्य च विरुद्धधमाध्यासविरहप्रतिहतत्वात्। पारोक्ष्यापाराध्यादेरसिद्धेः। विषयमप्रतिक्षिप्य तत्प्रामाण्यस्य प्रतिक्षेप्तुमशक्यत्वात् तदप्रतिक्षेपस्य च दर्शितत्वात् । इन्द्रियजत्वप्रतिक्षेपस्य चेन्द्रियान्वयव्यतिरेकानुविधानवाधितत्वात्। साक्षाकारित्वविश्रान्ते च तदनुविधानस्याव्यभिचारात् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy