________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
विरुद्धः स्यादित्याह । अथेति । अन्तर्गडम निरूपकमात्रम् न तु गोत्वस्थाधारमित्यर्थः। तथा च पिण्डे गोत्वमिति व्यवहारो न मुख्यः किन्त लाक्षणिक इत्यर्थः । आकाशादिदेशे नेह गौर्नेह गोत्वमस्यामौदिति व्यवहाराः पिण्डोपसर्पणादिनैवोपपत्रा इति न तत्र सम्बन्धासम्बन्धौ परम्परयापि यत्र पिण्डे ममवैति गोत्वं तत्रैव परं गोव्यवहारं करोतीति
न याति न च तत्रामौत्र चोत्पन्नं न चांभवत् ।
जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥ इति कौत्त्युकव्याघातो लक्ष्यच्युत शरस्य धन्विनः कण्ठडम्बर इव गोव्यकिनिष्ठकादौनां परम्परामम्बन्धेनैवममाहितत्वात् गोपिण्डेऽर्थसम्बन्धम्याभावादसम्बन्धकाले गोपिण्डस्यैवामत्वादित्याह। तदेति।
रघु० टौ. । अन्तर्गडुम् सम्बन्धघटकम् । उपलक्षणतया परम्परया। तत्रेति व्यवहारः, कदाचित्तत्रेति कदाचिच्च न तत्रेति व्यवहारः । तदिति । उपमर्पणोत्पत्तिभ्यामपमर्पण विनाशाभ्यां च तयोः सत्त्वामत्त्वव्यवहारयोरुपपत्ती
न याति न च तत्रामौत्र चोत्पन्न न चांशवत् ।
जहाति पूर्वमाधारमहो व्यसनसन्ततिः ॥ इति कीर्त्तिकण्ठडम्बरः । पूर्वमित्यनेन भजते परमित्यपि मुचितम् । स्वखावयवक्रियानिमित्तके पूर्वापरदेशत्यागावाप्ती न याति नांशवदित्यनेन प्रतिषिद्धे ॥
For Private and Personal Use Only