________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
आत्मतत्त्वविवेके सटीके
विरुध्येत इति चेदत्राह । येन चेत्यादि । जात: मम्बद्धश्चेत्यकः काल इत्यभ्युपगमादित्यर्थः ॥
अथ पिण्डमन्तर्गडमुपादायोपलक्षणतया तति व्यवहारः, तदा तदपमर्पणापसर्पणोत्पत्तिविनाशैरेव तदपपत्तौ न यातीत्यादिरपगड्वेषोरिव धानुष्कस्य कण्ठडम्बरः।
शङ्क० टौ । ननु पिण्डो निरूपकमात्रं न तु तत्र गोत्वं समवैति तथा च तेन रूपेण निरूप्यमाण गोत्वमाकाशादौ प्रागासौच्चेत्तदा गोव्यवहारः स्यादिति बम इत्याह। अथेति । अन्तर्गडुत्वं निरूपकमात्रम् । एवं मति यथा पिण्डसत्त्वासत्त्वाधीने गोत्वसत्त्वासत्त्वे तथा गौरस्ति गौर्नास्ति गौर्जातो गौर्नष्टो गौर्गच्छतोत्यादिव्यवहारा अपि पिण्डोपाधिका एव, तथा चोत्पादविनाशप्रत्ययो गोत्वबाधकत्वेनाशङ्कितो न मनागपि पदमादधाति, तेषां पिण्डोत्पादविनाशविषयत्वात् ।
न याति न च तत्रामौत्र चोत्पत्वं न चांशवत् ।
जहाति पूर्वमाधारमहो व्यसनमन्ततिः ॥ इति कौतेः विरोधकीर्तनस्य लक्ष्यं गोत्वं, तच्च ततः प्रच्युतं व्यको पतितमित्यपराद्धेषुता ॥
भगौ० टी० । नन्विह देशे गौरिति प्रतौतेः परम्परया आकाशादिनापि गोत्वसम्बन्धो नेह गौरितिधौविषयगोत्वासम्बन्धन
For Private and Personal Use Only