________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४.७
आत्मतत्वविवेके सटौके
तथा हि पिण्डमधिकृत्योपसर्पणापसर्पणाभावस्तदुपलक्षितं देशमधिकृत्य च सत्त्वासत्त्वे सामान्यस्येति किं केन सङ्गतम्। प्रथाप्यनुत्पन्ने पिण्डे तस्यासत्त्वं सुलभमेव तदसत्वादिति हृदयम्, तन्न । स्वरूपसत्त्वासत्त्वयोहितीयानपेक्षत्वात् सम्बहत्वासम्बद्धत्वे तु द्वितीयापेक्षे । ततस्तचासति नास्तौति कोऽर्थः ।
शङ्क० टौ० । ननु मामान्यं पिण्डं नोपसर्पति न वापमपति चेत् तदा तदपलक्षिते देशे मामान्यसत्त्वासत्त्वे स्थानामिति महवैशसमिति मोपहासमाह ! तथा हौति । उपसर्पणापमर्पणाभाव इत्यच मामान्यस्येत्ययेतनेन सम्बन्धः । यद्दा ननु व्यरुपश्चर्पणापमर्पणात्तदपलक्षिते देशे सत्त्वामचे न सामान्यम्येति यथाश्रते मोपहासमाह । तथा हौति । पिण्डे चेन्नोपमर्पणापमपणे तर्हि तदपलचिताकाशदेशे मामान्यस्य सत्त्वासत्त्वे स्यातामित्यत्यन्तममगतमित्यर्थः । ननु सामान्यं स्वरूपतः तद्देशादावस्ति चेदस्तु तथापि यः पिण्ड उत्पन्न एव नास्ति तेन तत्सम्बन्धः कथं स्यात् । न हि सम्बन्ध्यभावेपि सम्बन्ध दति पूर्वपक्षिणो हृदयमाह । प्रथापौति । मामान्यं स्वरूपतः सर्वत्र देश कालेऽस्तीत्यु तत्कथमनुत्पन्नेन पिण्डेन सम्बध्यतामित्यपि किं केन' मङ्गतमित्यर्थः । ननु पिण्डानुत्पत्तिदशायाममता पिण्डेन कथं सम्बध्यतामित्येतदेव प्रत्रविषय इत्यत आह । तत इति ॥
For Private and Personal Use Only