SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०२ आत्मतत्त्वविवेके सटौके इति । मध्यदेश इत्यर्थः । यद्वा जातिरनित्या चेत्यर्वपिण्डना उत्तरपिण्डे नोपलभ्येत तेन नित्या वाच्या, तत्राशते । अन्तराल इति । एकपिण्डनाशानन्तरं पिण्डान्तरानुत्पादककाल इत्यर्थः । उपलब्धेः कारणास्य व्यकरभावादिति ॥ पिण्ड एव कुण्डे बदरवत् कुतो नोपलभ्यत इति चेत् । न। अनन्यदेशत्वात्। भेदेन तूपलभ्यत एव, पिण्डान्तरासंसर्गिणि पिण्डेऽनुभूयमाने तत्संसर्गितयाऽनुभवात् । शङ्क० टौ । तर्हि पिण्डेपि विवेकेनोपलभ्यताम, नोपलभ्यते चेननं नास्तीत्याह । पिण्ड एवेति । विवेकेनोपलम्भो यदि पिण्डभिन्नदेश उपलम्भस्तबाह । अनन्यदेशति । यदि च भेदमात्रोपलम्भो विवेकेनोपलम्भस्तत्राह । भेदेनेति। विशेषणस्य गोत्वस्य विशेष्यस्य गोपिण्डस्य भेदेनोपलम्भस्य सत्त्वादित्यर्थः । नम्वयं गौरिति विशिष्टबुद्धौ गोपिण्डान्तरमेव विशेषणत्वेन भासतां किं गोवेनेत्यत पाह। पिण्डान्तरेति । पिण्डान्तरं सम्बद्धं विशेषणं भवेन त्वसम्बद्धमपौत्यर्थः ॥ भगौ० टी० । ननु यदि पिण्डसमर्गि गोत्वं तदा कुण्डसंसर्गिबदरवत्तथात्वेनोपलभ्यतेत्याह । पिण्ड एवेति । तथावेनेत्यस्य विभिन्न देशतयेत्यर्थः स्वरूपभेदेनेति वा पिण्डमंसर्गितयेति वा । श्राद्ये अनन्येति । द्वितीये भेदेनेति । पिण्डा देनोप For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy