________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
आत्मतत्त्वविवेके सटौके
गोशब्दसङ्केतग्रहवासनावशात्तथाविधप्रत्ययानुगमप्रसङ्गात्। इष्ट रवासावर्थ) इति चेत् । सोऽयं सानादिमतौषु व्यक्तिषु साधारणं रूपं न पश्यति पश्यति तु गोशब्दवाच्येषु दशस्विति किमच वक्तव्यं ननं रुचिरेवास्यर) लोचनमिति ।
पार० टौ. । प्राकनी मतग्रहवासना तत्राप्यस्तोत्याह । वासनेति । मोपि सङ्केतग्रह एवं जात्यादिनिमित्नं तिरस्कृत्य पुरस्कृत्य वेति विकल्पार्थः । भिन्नप्रवृत्तिनिमित्तेषु गोपदवाच्येष गवादिषु तथा सत्यनुगतप्रत्ययः स्यादित्याह । नानेति । अमाविति । अनुगतप्रत्यय इत्यर्थः। एकजातीयासु व्यक्रिष्वनगतधौनिमित्नं किञ्चिन पश्यति विजातीयासु पश्यतौतौछामात्र न तु प्रमाणानुरोधः कश्चिदित्यर्थः ॥
भगौ. टौ। सोयमिति । तथा मति लोकविरोध इति
भावः ॥
रघु • टौ. । तदासनातः शब्दवासनात एव दोषात् । दशसु खर्गेषुपशुविशेषवाम्बज्रदिनयनमयखपृथिवौपाथःसु ॥
(१) इछ एवायम-पाठः । (२) रुचिरमेवास्य-पाठः।
For Private and Personal Use Only