________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः।
३६३
इत्यत्र प्रत्यवमर्षस्य प्रतिसन्धानस्यैकत्वभ्रमादनुगतप्रत्ययानामेकत्वभ्रमाच्च व्यकोनामेकत्वभ्रम इति या भ्रमपरम्परा त्वयोना, सापि तव विडम्बनमेव धिक्कार एव, भ्रमकारणस्याप्यनुगतस्य त्वयानङ्गीकारादिति । यहा एकप्रत्यवमर्षस्येत्येकजातीयप्रत्यवमर्षस्येति त्वया वाच्यम् तथा च सिद्धो जातिकृतानुगम(१) इत्यर्थः । तथा च त्वत्कारिकायां तत्परम्परानुसरणं तज्जातीयत्वपरम्परानुसरण - मित्यर्थः । यदा व्यकौनां भिन्नानामेव सामर्थ्यात् सर्वत्राभेदव्यवहारोस्तु किं प्रत्यवमर्षानुगतधौपरम्परानुसरणेन कारिकास्थेनेत्यर्थः । एकजातीयं वास्तवमनुमरणीयमेवेत्यपसंहरति । तस्मादिति । यद्वा प्रत्यवमर्षा व्यवहारः। धौर्विकल्पकरूपाभुगतधौः तत्परम्परानुसरणमफलं व्यक्तिस्वाभाव्यादेव तदपपत्तेरित्यर्थः ॥
भगौ० टौ. । भ्रान्य नुगम इति । सर्वधौभ्रमत्ववादिनो भ्रान्तित्वमप्येकं वस्तु न सियेत् तत्राप्यनुगतमतेर्भमत्वात् यदि सामग्रीमाजात्यं नाट्रियेतेत्यर्थः । अन्यथेति । अनुगतधर्मानन्यपगमे परम्परया मामान्यपि मामान्यान्तरं व्यक्तिरूपमनुगतव्यवहारहेतुरालम्बनमिति यदच्यते तविडम्बनमेव निमित्तान्यथोपपत्तेः स्वयमभ्यपगमात् । यद्वाऽनुगतधर्मानभ्युपगमे कारणत्वग्रह एव न स्थात् प्रानन्त्यव्यभिचाराभ्यां व्यक्तौ तदसम्भवात् । यद्वाऽनुगतधर्मानभ्युपगमे व्याप्तस्य पक्षधर्मत्वमित्यनुमानमपि विडम्बनमित्यर्थः । अन्यथाख्यातिपक्षमाश्रित्याह । तस्मादिति ॥
(१) नुगतप्रत्ययः-या० २ पु० ।
50
For Private and Personal Use Only