SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२ आत्मतत्त्वविवेके सटौके माह । भेदेति । ते अर्थक्रियामाजात्यवैजात्ये । भान्ते धान्यलिखिते । यदि विनैव बाधकं बुद्धौनां भ्रमत्वं तदा बाह्यविलोपप्रसङ्ग इत्याह । त्यजेति ॥ माभूहाऽर्थक्रियामाजात्यवैजात्यावगमः। भ्रान्त्यनुगमोप्यकं निमित्तमनादृत्य कथम्, तदपि हि कार्यमाजात्य सामग्रौसाजात्यमन्तरेणाकस्मिकमापद्येत । अन्यथा तत्परम्परालम्बनमपि विडम्बनमेव। भिन्नस्तैस्तैरभेदव्यवहारसिद्धौ व्यक्तिभिरेव तथाभूताभिरभिमतसिद्धेस्तदनुसरणप्रयामवैफल्यात्। तस्मादारोपव्यवहारस्याप्यनारोपितजात्यनादरे असम्भव एवेति । शाङ्क • टौ। माभूवेति । अर्थक्रियामाजात्यं कारण - माजात्योनायक मास्तु, किञ्चितानं भ्रान्तं किञ्चिदभ्रान्तमियमपि व्यवस्था कारणमाजात्यनिबन्धनैव म्यादन्यथा सर्व भ्रान्तमभ्रान्तमेव वा भवेदित्यर्थः । भ्रान्तित्वेनानुगतमतिरपि भ्रमः स्यादित्यर्थ इत्यन्ये । तदपि भ्रान्तत्वमपि । ननु भ्रमत्वे सामग्रीमाजात्याप्रयोजकत्वेष्यनाकस्मिकत्वं स्यादित्यत पाह। अन्यथेति। तत्परम्परालम्बनमपौति । भ्रमपरम्परालम्ब नमपौत्यर्थः । तदनुसरणप्रयासो भ्रमपरम्परानुसरणप्रयामः । तदयमर्थः । एकप्रत्यवमर्षस्य हेतुत्वावौरभेदिनौ । एकधीहेतुभावेन व्यकौनामप्यभिन्नता ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy