SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । ३८६ शङ्क० टौ. । यथात्यन्तभिन्नानामभेदव्यवहारहेतुत्वं तथा अभिनानां भेदव्यवहार हेतुलमेव किं न स्यादित्येकैकोपि गोपिण्डो भेदेनैव व्यवहियेतेत्याह । यद्येवमिति । एकेनाने कव्यवहारश्चंदनुपपनस्तदा(१) अनेकैरेकव्यवहारोप्यनुपपन्न एवेत्याह। अथैवमिति । तुल्यतामेव दर्शयति। अनेकेति । एकेनैव मामान्येन गोत्वादिना गवादिपिण्डानामनुगतव्यवहार इत्यपमहरति। तस्मादिति । भगौ० टी० । अनेकेनाने कव्यवहार एवेति नियमानभ्युपगमे एकेनैकव्यवहार एवेत्यपि नियमो न स्यादिति स्वलक्षणामपि त्यज्यतामिति बाह्यवादव्याघात इति ममाधत्ते । यद्येवमिति । अभिनेनेति । यथा मर्वत्राद्वैतवादिभिब्रह्मणैकेनाने कव्यवहारो भ्यपगम्यत इत्यर्थः । अथैवमिति । इतरानिमित्तकोऽयं व्यवहारो यदि तनिमित्तको न स्यात् अनिमित्तको वा म्यादित्यर्थः । रघु० टौ । मामयं यदि तादृश निखिलव्यक्तिनिष्ठमेकं नहि किमपराद्धं प्रत्यक्षमिद्धेन गोत्त्वादिना, अथ प्रतिव्यक्ति भिन्न न तर्हि तस्यानुगत विकल्पोत्पादनियामकत्वं मिथो व्यभिचारादित्याशयेन निराकरोति । यद्यवमिति । का गतिस्तर्हि सामान्येष्ठ नेकेष्वेकव्यवहारस्य । या चन्द्रमस्येकस्मिन्ननेकव्यवहारस्य। भ्रान्तोऽसाविति चेत् । (१) तथा—पाठः For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy