________________
Shri Mahavir Jain Aradhana Kendra
३८८
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
वा
०
रघु टौ० । अनुगतं सामान्यमनुगत विकल्पजननार्थं कल्पते अनुगतव्यवहारालम्बनतया वा । नाद्यो भिन्नानामपि खकारधौनान सामर्थ्यविशेषादनुगतविकल्पजननोपपत्तेः । न द्वितीयः तादृशविकल्पजनकत्वस्यैव व्यवहारालम्बनत्वात् । यदि चानुगतविकल्पजनकत्वादतिरिक्तमप्यनुगतव्यवहारालम्बनं कल्पनीयं तदा मामान्येप्यनुगतमामान्यव्यवहारालम्बनं सामान्यान्तरं कल्प्यं तत्रापि न मामान्यव्यवहारात् तस्य च स्वात्मनि वृत्तिविरोधात् तत्साधारमपरं एवं तत्र तत्रापौत्यनवस्था । एवं यदि स्वभावनियतवृत्तेरपि सामर्थ्यम्य वृत्तिनियमार्थं सामान्यं कल्प्यं तदा तस्यापि वृत्तिनियमार्थं मन्यदेवं तस्य तस्यापौत्यनवस्येत्याशङ्कते । स्थादेत दित्यादिना । विकल्पानां ममानत्वमाकारविशेषः ।
यद्येवं निमित्तान्तरमनपेक्ष्ये कव्यवहारोऽत्यन्तभिन्नैः, एवं भिन्नव्यवहार एवाभिन्नेनैकेन केनचित् किं न साध्यते, शक्तिस्वभावावलम्बनस्योभयत्रापि तुल्यत्वात् । श्रथैवं सत्येकव्यवहारः क्वचिदपि न स्यात निर्निमित्तो वा भवेत्, उभयमप्यनिष्टम् । तदेतत्तुल्यम् । अनेकव्यवहारोप्येवं सति न स्यात् निर्निमित्तो वा भवेत्, उभयमप्यनिष्टम् । तस्मादेकेनैकव्यवहारवदनेकेनाप्यकव्यवहार एवेति सामर्थ्यनियमः ।
For Private and Personal Use Only