________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
आत्मतत्त्वविवेक सटौ के
प्रयोज्यत्वादतिरिक्तस्वभावभेदे प्रमाणाभावान्न तम्याप्यनुगतस्यानुगतकारणमन्तरेणामभवादनुभूयमानस्य चासम्भवबाधकम्य विकल्पाना मिच्छादिविषयविषयकत्वस्यापलपितुमशक्यत्वात्ममानविषयत्वेनैव प्रवृत्तिविकतायोः कार्यकारणभाव इति मिद्धान्ततात्पर्यमझेपः ॥
कारण शक्तरसदत्पत्तिवन्नियम इति चेत् । सत्यम् । एतच्चिन्तनौयं कारणशक्त्यापि नियतजातिनियतया भवितव्यम्। अन्यथा ज्वलनविकल्याज्जलेपि प्रत्तिप्रसङ्गात् ।
शङ्क० टौ । ननु यथा पूर्वसत्त्वाविशेषेपि दण्डाद् घट एव जायते न तु पटस्तथा गोविकल्पाद् गव्येव प्रवृत्तिर्नाश्व इत्याह । कारणेति । यथा दण्डत्वावच्छिन्नस्यान्वयव्यतिरेको घटत्वावच्छिन्नं कार्यमनुविधत्ते तथा गवि प्रवृत्तिं प्रति विकल्पम्य जातिप्रतिनियमस्त्वन्मते दरूपपाद इत्याह । कारणशक्त्या पौति। नियामकमन्तरेण स एवातिप्रमङ्ग इत्याह । अन्यथेति ।
भगी. टी. । ननु यथा कारणं दण्डादि कार्यपा घटादिना ऽसम्बद्धत्वाविशेषेऽपि नियतमेव कार्य जनयति स्वभावात् तथा ज्ञानमपि नियत विषये प्रवृत्तिहेतुरित्याह । कारणेति। स्वभावनियमोऽन्वयव्यतिरेकावच्छेदके नियतरूपावच्छेदे मत्येव स्यादिति तद्विषयज्ञानत्वेनैव प्रवर्तकत्वं वाच्यमित्याह । कारणशक्त्येति ।
For Private and Personal Use Only