________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
रघु० टी० । भेदाग्रहो भेदना हित्वाभाववत्वम् । स्वरूपम्येति । अनुभवात्मनो भेदस्य स्वप्रकाशतया स्वतएवावगमादित्यर्थः । अनुभवाग्राहकत्वाद्विकल्येन त दाग्रहणं तु स्वलक्षणान्तरानुभव माधारणम् । अपारोक्ष्यं अपारोक्ष्य तत्त्वम् ॥
नापि विषयसारूप्यं । तदभावात् । का हि परसार्थसदलौकयोः समानरूपता नाम। यदि रूपशब्दो धर्मिवाचकः समानशब्दश्चैकपर्यायः क्वार्थमङ्गतिः प्रकृते। यदि वा रूपं धर्मः समानश्चैको वैकजातौथो वेति तथापि क्वार्थसङ्गतिः प्रकृते। अतद्यात्तिरिति चेत् । न । तस्य चालीकानलोकनिष्ठतया सकत्वैकजातीयत्वयोरभावात् । श्राभिमानिकोयं सारूप्यव्यवहारो न पारमार्थिक इति चेत् । न । अभिमानस्यैव चिन्त्यमानत्वात् । न हि चिन्तितप्रकारान् परिभूधापरोऽभिमाना नाम।
शङ्क टौ । विषयेति । अनुभवविषयविकन्यविषययो: सारूप्यमपि नानुभवव्यापारपुरस्कार दूत्ययः । मारूप्याभावमेव दर्शयति । का हौति । प्रमेयत्वादिनाचि मा दर्लभत्यर्थः । न हि वस्त्ववस्तुनोरेको धर्मों नापि बलवस्तुनोरेक एकजातीयो वा धर्म इत्याह । यदौति । उभयत्रानभ्युपगमादेवामंगते रिति
For Private and Personal Use Only