________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३६३
प्रवर्त्तयतीत्यत श्राह । नापीति । अनुभवव्यापार पुरस्कार इत्यनु षज्यते । श्रपारोच्यमानस्य १) प्रयोजकले स्वात्मनि सर्वविकल्पानामपरोक्षतया सवें ज्ञानं सर्वत्र प्रवर्तयेदित्याह । तस्येति । ननु यथाऽनुभवस्य विषयोऽपरोक्षस्तथा विकल्पस्थापति प्रवृत्तिनियमः स्यादित्यत श्राह । विषये चेति । न ह्यलीकमपरोक्षं नामेत्यर्थः । अभ्युपेत्याह । तथेति । नैतत् प्रवृत्तिनियामकमित्यर्थः ॥
अथ
भगौ० टौ । स्वात्मनो विकल्णत्मन इत्यर्थः । यस्य यद्यनुभवात् स्वरूपभेदो न गृह्यते तत्राह । स्वरूपष्यति । बौद्धानां स्वप्रकाशमर्थ्यादया स्वरूपभेदस्य स्वतएव ग्रहादित्यर्थः । विषयतः म न गृह्यते तत्राह विषयेति । अलोकस्य विषयस्य पारमार्थिकमेदासम्भवादित्यादिना afarmifead: 1 ननु विकल्पोऽपरोक्षरूप श्रात्मांशेऽपरोक्षरूपानुभवविषये प्रवर्त्तयतौति नियमः स्यादित्यत श्राह । नापीति । अनुभवव्यापार पुरस्कार इत्यनुषज्यते । आत्मनि मर्वमेव ज्ञानमपरोक्षमतस्तेन भेदाग्रहोप्यन्यत्रास्तीति प्रवृत्त्यनियमस्तदवस्य त्रेत्यर्थः । ननु येनानुभवेन विकलस्य विषये साचात्त्वमाधीयते तद्विषयेऽनुभवः प्रवर्त्तयतीत्यत श्राह । विषये चेति । माक्षात्त्वस्य विषयधत्वाभावादनुभवेन निष्ठस्यानाधानादित्यर्थः । तथाभावेपोति । माचात्त्वस्य विषयधर्मत्वेपि नान्यज्ञानादन्यत्र प्रवृत्तिः प्रवृत्ती वा न स्वलक्षण एव प्रवर्त्तेत प्रवृत्ती वा कदाचिदलौकेपि प्रवृत्तिप्रसङ्ग इत्यर्थः ॥
(१) अपरोक्ष - पा० २ पु० ।
For Private and Personal Use Only