________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
यदप्यत्यन्त विलक्षणानामित्यादि, तदपि सन्दिग्धानैकान्तिकम्, विधिनापि तथाभूतेन सालक्षण्यव्यवहारस्य निर्वाहात्। तथा ह्ययं व्यवहारो न निर्निमित्तो नाप्यनेकनिमित्तो नाप्यनेकासंसर्गकनिमित्तः, अतिप्रसङ्गात् । ततोऽनेकसंसर्गकनिमित्तोऽयं परिशिष्य ते, तथा च तादृशस्य विधिरूपत्वे को विरोधः, येन व्याप्तिः स्यात, प्रत्युत निषेधरूपतायामेव विरोधो दर्शितः प्रागिति कृतं पल्लवसमुल्लासैः ।
शङ्क० टौ. । अनुमित्यादिद्वितीयं परानुमानं दूषयति । यदपौति ! मन्दिग्धेति । माल क्षण्य व्यवहार हेतुत्वे हेतुत्वेप्यतयावृत्तिरूपं मास्त्वित्यत्र विपके बाधकाभावादित्यर्थः । अन्यथासिद्धिमुखेन मन्दिग्धानेकान्तिकत्वमेव स्फटयति। विधिनापोति । विधिरत्र जातिरिति व्यवस्थापयति। तथा होति । निर्निमित्तत्वे नित्यत्वप्रसङ्गः, अनेकनिमित्तत्वे चाननुगताकारत्वप्रसङ्गः, अनेकमंजैकनिमित्तत्त्वेऽपि तथेत्यर्थः । तादृश दति(२) षष्ठी। व्याप्तिः स्यादिति । यदत्यन्त विलक्षणानां सालक्षण्यव्यवहार हेतुस्तदन्यव्यावृत्तिनिष्ठमिति तद्पदर्शिता व्याप्तिः सिद्धयेदित्यर्थः । पूक्ति बाधं स्मारयति । प्रत्यतेति ॥
(१) हेतुरप्यतयावृत्ति-~-पा० १ पु० | (२) तादृश इति पाठमालम्बा व्याख्यातम् ।
For Private and Personal Use Only