________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
भगौ • टौ । यदि च क्रमिकमट्रव्यपार्थिवत्वादिप्रत्ययानां प्रामाण्यं, तदा ममानविषयत्वमेव, अथैक म्य प्रमात्वम्, तदा कम्य तदिति नाश्वाम: स्यादित्याह । यदि चेति । अर्यलाभः विषयलाभः । अर्थलाभोपि मर्वस्यैव क्रमिकतत्तत्प्रत्ययम्या विशेषादित्याह । नन्विति । पूर्वानुपमई मेवाह । न हौति ॥
रघु० टी० । दूरतमादौ मट्व्यमित्यादयः क्रमिकाः प्रत्ययाः यदि नैकविषया न तर्हि सर्वे प्रमाणं, न खस्नत्तरोत्तर प्रत्ययोलिखितरूपरहितं पूर्वपूर्वप्रत्ययगोचरो वस्त्वन्तरं नाम । अथैक एव प्रमाणं, एकतमस्तथेति कुतो निर्णय इत्याह । यदि चेति । अनुभूयमानायामनुगताकारम्य विधिरूपतायां विकन्यस्य च धर्मिविषयतायां न किञ्चिदपि बाधकमस्तौति भावः । भावार्थमभ्यपेत्याह । यम्येति । अर्थो विषयः ॥
यत्रार्थक्रियामिद्धिरिति चेत्, सर्वेषामनुवृत्तेः कस्यार्थक्रियेति किं निश्चायकम् । न किञ्चित्, किन्तु सङ्कोर्णार्थक्रिया विरहादेकमेव तच वस्तु, न चै कस्मिन् प्रतिभासभेद इत्येक एव प्रत्ययस्तच सालम्बन इति ब्रम इति चेत्, तथापि कतम इत्यनिश्चये स एवानाश्वासः। असङ्कीर्णापि चार्थक्रिया न व्यक्तितः, सामग्रौतः सर्वसम्भवात् । अतएव न सन्तानतः। न ह्येकसन्तान
For Private and Personal Use Only