SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ अात्मतत्त्वविवेक सटीक भगौ• टौ । प्रतिभासभेदो यदि विषयभेदकृत एव विवक्षितः स्थात्, तदा साध्या विशेषः स्यादिति स्वरूपत एव म वाच्यः, तत्राह। चित्रेति। न हौति। यदेव चित्राध्यक्षे नौलं भातं तदेव केवलमपि पश्चात् तम्य पुरुषस्य नौलबुद्धौ न भासत इति नास्ति, अपि तु तदेव भामत इत्यर्थः । क्षणभङ्गमुलिका परस्यासिद्धिं निवारयति । तदेव वेति । यदेकं नौल यदे कस्य नौलबुद्धौ चकास्ति, तदेवान्यस्य केवल तन्नौलं न चकास्तौति नेत्यर्थः । येनाकारेण नौलत्वेन । येन विरोधः चित्रत्वेन । धर्मान्तरं चित्रत्वं चित्रविकल्पे, केवलनौलविकल्पे च नदविषयत्वम् । प्रसिद्ध इति । विरुद्धधर्मान्तरे कविषयत्वाविरोधात् सन्दिग्धानेकान्तिकत्वेन व्याप्यत्वामिद्धो हेतुरित्यर्थः । नन्विति । येन रूपेण विरोधस्तेनैकविषयत्वस्य नैयायिकैरनभ्युपगमादित्यर्थः । तदेव विशदयति । न हौति । तथा च प्रत्यक्षे ये धर्मा भासन्ते तदविषयकत्वेपि लैङ्गिकादिविकल्पानां धर्मिविषयत्वमविरुद्धमिति भावः ॥ रघु• टौ। परेषां भावानां चणिकत्वादाः। तदेवेत्यादि। येनाकारेण नौलत्त्वेन । येन विरोधश्चिचत्वेन । अथैवं यत्प्रतिभामविषययदर्थाविषयको य: प्रतिभासो नामौ तेनार्थेन तत्ममानविषय इति पर्यवसिता व्याप्तिः, तथा च यदि प्रत्यक्षविषयगोत्ववत्पिण्डाविषयत्वं हेवक्रियते तदा स्वरूपासिद्धिः, प्रत्यक्षवच्छब्दादिविकल्पस्यापि गोत्ववत्पिण्डविषयत्वोपगमात् । प्रत्यक्षविषयदेशादिनियमाविषयत्वं, तदा मिद्धसाधनं, देशादिनियमेनार्थेन For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy