________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
आत्मतत्त्वविवेके मटौके
देशादिमम्बन्ध प्राप्तेऽस्ति गोष्ठ कालाक्षी धेनुरित्यादिना देशविशेषादिबोधनमन्य देशादिनिषेधश्च बोधत इत्यर्थः । निषेधात्मकत्वे बाधकमाह । शान्तेति । विधिपक्षे धर्मान्तरप्राप्तिनियमौ स्फट यति । तत इति । मा चाकासा निवार्यत इत्यन्वयः । गोष्ठत्वादिना तद्देशाद्यप्राप्तौ विधायकैः तत्प्राप्तौ तु नियामकैरिति व्यवस्थित विकल्पः । ननु धर्मधर्मिणोरभेदानेदेपि व्यक्त्या तमादाय पौनरुक्त्यमेवाह । गोत्वेति । धर्मधर्मितोमैंदाद्धर्मस्य च निराश्रयस्य बोधयितुमशक्यत्वादसतोपि पौनरुक्त्य नेत्याह । तस्य प्रागिति ॥
रघु • टौ । तलिमम्तिनास्तिव्यपदेशावनुपपन्नावेवेत्यत पाह। तस्मादिति । उपाध्यन्तरम् देशकालविशेषसत्वासत्वरूपम् । तस्याप्राप्तौ प्रापणं प्राप्तौ तु नियमनमिति । शान्ताशेषविशेषत्वात् निःस्वरूपत्वात् । प्रतिपत्ता गोएदजन्यगोजानवान् । विशेषाकाङ्क्षः गौरितिवाक्यप्रवणानन्तरं अत्यादिविशेषाकाङ्क्षः, गौरितिवाक्यश्रवणानन्तरं अस्यादि विशेषमाकाङ्क्षत इत्यर्थः । अस्तित्वादिकं न धर्म्यतिरिक्त, धर्माधर्मिणोरभेदादित्यायवानाशङ्कते । गोत्वेति । धर्मधर्मिणोर्भद एवेत्याशयेनोत्तरयति । तावन्मात्रेत्यादि । अथ भावाभावमाधारण्यं श्राश्रयस्य मत्व व विनाशेष्यविनाशित्वम्, तदन्यथासिळू, नित्यत्वात्कार्यस्यैवाश्रयनाशनाश्यत्वात् ॥
यस्तु निपुणम्मन्यो विकल्पमेव पक्षयति स्म, यज्ज्ञानं यद्भावाभावसाधारण प्रतिभामं न तेन तस्य विषयत्वम्,
For Private and Personal Use Only