________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
F
व्यावृत्तिमाचं बावनेकान्तात् नाप्यन्यव्यावृत्तिरूपत्वम्, भावे श्रभावात् । यदि चाभावमात्रमा दृश्यमन्यव्यावृत्तिरूपत्वं हेतू कुर्यात्त चाह । साध्याविशेषादितौत्याङः । श्रस्तिनास्तिमामानाधिकर ण्यम्, तादृशस्य विकल्पस्य व्यपदेशस्य वा विषयत्वम्, खलक्षण तु न विकल्पस्य न वा व्यपदेशस्य विषयः, धर्मधर्मिणोश्चाभेदो नातो व्यभिचार इति भावः । तदेकेन रूपेण विवक्षितं रूपान्तरेण वा । श्राद्ये विरोधादिति । द्वितीये श्रन्यथेति । विरोधं विवृणोति । न हौति । न हि यद्येन रूपेणास्तौतिविकल्पव्यपदेशयोर्विषयः तेनैव रूपेण नान्तौति विकत्वव्यपदेशयोरपौत्यर्थः । प्रत्ययः प्रतौतिर्व्यपदेशश्च प्रतौयतेऽनेनेति व्युत्पत्त्या । विधिरूपत्वे बाधकं शङ्कते । तस्येति । अस्तिना विधित्वबोधकेन । उपनेयम् विधेयम् । तथा चास्तीति पुनरुक्तम् विधित्वशून्यत्वबोधकं च नास्तीति विरुद्धमित्यपि द्रष्टव्यम् । निषेधत्वम् विधित्वशून्यत्वम् । अपनेयम् निषेध्यम् । श्रवास्तीति विरुद्धमित्यपि द्रष्टव्यम् । एवं पौनरुत्य विरोधाभ्यामेव । बोधकास्ति नास्तिव्यपदेशयोग्यत्वमेव माधकम्, एकैकव्यपदेशा योग्यत्वेनैकैका न्यात्मकत्वं एकैकात्मकत्व - विरहो वा वियत् श्रर्थाद्भावाभावात्मकत्वे भावाभावात्मकत्वविर हे वा पर्यवस्येत्, तच्च विरोधान्न सम्भवतीत्याह । तथापौति ||
भावाभाव
भावाभावसाधारण्यमभावत्व -
३१३
For Private and Personal Use Only
-
तस्मादस्ति नास्तिभ्यामुपाध्यन्त रोपसम्प्राप्तिः प्राप्तोपाधिनियमो वेति सार्थकत्वं तयोः । तदेतद्विधावपि
40