________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
आत्मतत्त्वविवेके सटौके
भगौ० टौ। उभयेति । भावाभावरूपत्वमित्यर्थः । तद्धर्मत्वं भावाभावधर्मत्वम् । तद्धर्मित्वं भावाभावरूपधर्मशास्तित्वमित्यर्थः । असम्भवादिति । गोत्वस्य भावाभावाभ्यां न मादृश्यमस्ति । न हि भावत्वाभावत्वे सादृश्यं गोत्वे द्वबस्याप्यवृत्तेः । नाप्यतन्निवृत्त्याश्रयत्वमेव तत् व्यकावनैकान्तादित्यकलादित्यर्थः । ननु चातन्निवृत्तिवमात्रेण तदुभयमादृश्यं स्थादित्यत आह । अतन्निवृत्त्येति । गोत्वस्यातन्नित्तिरूपत्वस्यैव साध्यवादित्यर्थः । सामानाधिकरण्यमस्तिनास्तिधौविषयत्वं तत्पदवाच्यत्वं वेत्यर्थः । तद्यद्य करूपेण विवक्षितं तबाह । विरोधादिति । अथ रूपान्तरेण तत् । तत्राह । अन्यथेति । अन्यथासिद्धिं स्फटयितुमाह । प्रकारान्तरमिति । अस्तिनास्तिमामानाधिकरण्यानुपपत्त्या तस्य भावाभावरूपत्वमित्येव भावाभावसामानाधिकरण्यमस्त्वित्यर्थः । अशक्यमिति । उभयत्रापि व्याघातादित्यर्थः ॥
रघु० टौ. । उभयेति। भावाभावावुभयम् । निषेधैकेति । खाभावनिषेधरूपत्वेपि खतो विधित्वात् । मादृश्यम् मादृश्यरूपत्वम् । असम्भवात्। प्रभावावृत्तित्वेन तथात्वासम्भवात् उभयवृत्तेरेव धर्मस्य सादृश्यत्वात् । भवेदेवं यदि गोत्वं भावो भवेत्, न त्वेवम्, किन्तु गवान्यात्मकमहिषादिव्यावृत्तिः, मा च निरात्मके प्रभावे गवात्मनि वर्तत इत्यत आह । अतदिति । निवृत्त्या निवृत्तिरूपत्वेन । माध्याविशेषात् । निवृत्तिरूपत्वस्यैव माथत्वात् । केचित्तु गोत्वस्य भावाभावसादृश्यं न भावत्वाभावत्वम्, असम्भवात् । नाप्यन्य -
For Private and Personal Use Only