________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३०५
पारोपितः तस्याऽग्रहं ब्रम इत्यत आह । आरोपितस्येति । भारोपश्चाग्रहश्चेति विरोध इत्यर्थः । ननु यस्य भेद स्यामत्त्वमारोप्यते तस्याग्रहः स्यादित्यत आह । पारोपितेति । असत्त्वं चदारोपितं तदापि परमार्थमन्नेव भेदस्तत्र स्यात् तथा च पुनरलोकत्व प्रमङ्ग इत्यर्थः । कोटिः प्रकारः। चैलोक्येति । तथा च सर्वत्रैवानुगतप्रत्ययः स्यादिति भावः । ननु घटपटादावत्यन्तविलक्षणे भेदप्रतीतिरेवास्त्यतो न भेदाग्रहो न च तदधीनाऽनुगतप्रत्यय इति श्राह। अन्यत्रेति । पारमार्थिकभेदग्रहश्चेदभेदारोपपरिपन्थौ तदा पारमार्थिकभेदाया एवाभेदारोपानुगुणः स्यादिति विकल्पविषयाणां पारमार्थिकभेदोऽन्धुपगन्तव्यो यदग्रहेणाभेदारोपः स्थादिति पारमार्थिकधर्मकतया(१) मिळू पारमार्थिकत्वं विकल्पविषयाणामित्यर्थः । तन्नामकेति । अव्यपदेश्यभेदस्येत्यर्थः । अत एवेति । प्रतिप्रसञ्जकत्वादेवेत्यर्थः । न हि यमजयोर्भेदो न रह्यते एतावतैव निरजतयोरभेद अारोप्यते । घटस्य वा खात्मप्रतियोगिकोऽस दो न गृह्यत एतावतैव शक्तिरजतयोरभेद भारोप्यते इत्यर्थः ।
भगौ• टौ। ननु विकल्पविषयाणामलोकानां भेदाग्रहादलौकत्वमात्रग्रह एवानुगतत्वभानमित्याह । भेदाग्रहादिति । अलौकानां भेदः पारमार्थिको वा पारमार्थिकासत्ताको वा पारोपितो वा पारोपितासत्ताको वा अलोको वा व्यधिकरणो
(१) धर्मवत्तया इति २ पु० पा० ।
For Private and Personal Use Only