________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक माके
व्याघातात्, परमार्थासतः परमार्थाभेदपर्यवसायित्वात्
आरोपितस्याग्रहानुपपत्तेः, अभेदारोपानवकाशाच्च, पारोपितासत्त्वस्य परमार्थसत्त्वग्रसङ्गात्, चतुःकोटिनिर्मुक्तस्य चातिप्रसञ्जकत्वात्, तदग्रहस्य त्रैलोक्यपि सुलभत्वात् । अन्यत्र पारमार्थिकभेदप्रतौती कथमभेद आरोप्यतामिति चेत् । एवं तर्हि यस्य प्रतिभासे यन्नारोप्यते नियमेन तस्यैवाप्रकाशे तदारोप्यम्, न तु तन्नामकमात्रस्य अतिप्रसञ्जकत्वात्। अत एव न व्यधिकरणस्यापि सतोऽसतो वा भेदस्याग्रहोऽभेदारोपोपयोगौति ।
शङ्का • टौ । ननु विकल्पविषयाणामलोकानां परस्परभेदो न गृह्यते एतावताऽनुगतप्रत्ययः स्यादिति शङ्कते । भेदेति । पारमार्थिकस्तावदलोकानां भेदो नाम्ति यदग्रहः स्यादित्याह । भाविकम्येति । नन्वस्तु तेषां पारमार्थिको भेद इत्यत आह । भावे वेति । पारमार्थिकधर्माश्रयत्वेन विकल्पे विषयाणां पारमार्थिकत्वप्रसङ्गादित्यर्थः । ननु यथा रजते रजतभेदः परमार्थतोऽसन्नेव न ग्राह्य ते तथा विकन्यविषयाणां पारमार्थिकोऽसन्नेव भेदः स्यादित्यत आह । परमार्थेति । यथा रजतस्य नत्र परमार्थाभेदः पर्यवम्यति तथा कल्पना विषयाणामपि परमार्थाभेदः स्यात् । तथा च सिद्धं विकल्पविषयाणां देशकालानुगमोपि विषयत्वं चेत्यर्थः । ननु विकल्पविषयेषु यो भेद
For Private and Personal Use Only