________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१५.
रघु० टी० । (१) प्रेक्षावतां प्रवृत्तये प्रयोजनाभिधेयसम्बन्धानाह । दहेत्यादिना विविच्यते दूत्यन्तेन । तत्र प्रयोजनमपवर्गः । श्रभिधेयमात्मतत्त्वम् । सम्बन्धो ग्रन्थात्मतत्त्वज्ञानापवर्गाणां हेतुहेतुमद्भावो ग्रन्थात्मतत्त्वयोर्जाप्यज्ञापकभावश्च । सुखमिवात्मगुणो दुःखमपि न हेयं हेयं वा सुखविरोधितामात्रेण कामिनौं सम्बुभुचोरिव कामुकस्य गुरुजनसन्निधानम् श्रसदेव वा व्योमकमलिनीप्रसूनपूतिगन्धवदिति शङ्कात्र्यनिरासाय निमर्गादिसिद्धमित्यन्तम् । अनुसरन्तः कोस्थोपाय इति जिज्ञामवः । श्रध्यात्मविदात्मतत्त्वज्ञः । वाक्यता ऐकमत्यम् । कारणे कार्योपचारात् एकमेकार्थप्रतिपादकं वाक्यं येषामिति वा । श्राकर्णयन्ति शब्दादवधारयन्ति । तत्त्वज्ञानमेवेति । श्रसाधारणमिति शेषः । तत्त्वज्ञानं तत्त्वज्ञानविशिष्टकारणकलापमिति केचित् । काशीमरणादेः स्वातन्त्र्येण मोचहेतुलं निराकर्तुमेवकारार्थं स्पष्टयति । न ततोऽन्यमिति । तत्त्वज्ञानस्य मोचहेतुत्वे श्रात्मन इति कुत इत्यत श्राह । प्रतियोगीत्यादि । प्रतियोगितया ऽनुयोगितया चेत्यर्थः । मतभेदेन चेदं तदुक्तम् ।
एक
नैरात्म्यदृष्टिं मोदस्य हेतुं केचन मन्वते ।
श्रात्मतत्त्वधियं त्वन्ये न्यायतत्त्वानुसारिणः ॥ इति ।
सर्व एव हि भोगभाजं स्थिरतरमात्मानं मन्वानाः सुखादिकं कामयन्ते यदाः ।
(१) 'रघु० टी० ' इत्यनेन तार्किक शिरोमणिरघुनाथकृता टीकेत्यव गन्तव्यम् । एवमग्रे ऽपि ।
For Private and Personal Use Only