________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवे के सटीके
चन तत्त्वज्ञानमहकारिणा मिति न ते व्यवच्छेद्याः अन्यथान्ययोगव्यवच्छेदादौ प्रत्येक शक्तिकल्पने नानार्थत्वापत्तेः। अन्ये त्वयोगव्यवच्छेद एवैवकारार्थः पार्थ एव धनुर्द्धर इत्यत्राप्यधनुर्द्धरत्वायोगो व्यवच्छिद्यते अन्यो न धनुर्द्धर इति त्वर्थतन्यमित्याहुः । ननु तज्ज्ञानं विनापि कागौमरणमहादानादेर्मोचहेतुत्वश्रवणात् कथमेवमित्यत आह । न ततोन्यं न तत्त्वज्ञानसामग्री विना स्थादित्यर्थः । तेषामपि तत्त्वज्ञानद्दारा मोक्षहेतुत्वात् । अन्यथा व्यभिचारात् तत्त्वज्ञानमहेतुरेव स्यात् स्वर्गवदपवर्ग प्रकारभेदाभावात् । वस्तुतः संसारबौजमिथ्याज्ञानोच्छेदं विना न मोक्षः स च तत्त्वज्ञानकजन्य इति भावः । ननु सौगतानां नैरात्म्यज्ञानं तत्त्वज्ञानं दुःखहानहेतरतो नैकवाक्यता वादिनामित्यत आह । प्रतियोगौति । यद्वा तत्त्वज्ञानं तदुपायः। श्रात्मतत्त्वं विवियत इत्यमङ्गतेराह । प्रतियोगौति । शरीरादिभिन्न श्रात्मा नास्तीति नैरात्म्यार्थः । तथा च बौद्धमते शरीरादिकमलीकादात्मनो भिन्नमिति प्रतियोगितया सात्मकत्वपक्षे शरीरादेरात्मा भिन्न इत्यनुयोगितया श्रात्मावश्यं ज्ञेय इत्यर्थः । नन्वहमित्यात्मज्ञानं सर्वप्राणिनां मानसमयत्नसिद्धमतः किमनेन ग्रन्थेनेत्यत पाह। नैसर्गिकमिति। यद्यपि तत्त्वज्ञानाजन्यमप्यहं सुखौतिज्ञानं बाधकाभावान्न भ्रमः तथाप्यात्मा वा अरे श्रोतव्य इति श्रुतेरात्ममननरूपं यदात्मतत्त्वज्ञानमवगतं तन्नैसर्गिकमात्मज्ञानमहं सुखीत्यादि न भवतीति तदर्थमयमारम्भ इत्यर्थः । यदा कस्यचिदात्मज्ञानस्य यथार्थत्वेष्यहं गौर इत्यादिज्ञानधारातिरस्कृतत्वेन स्वकार्याक्षमतया तदप्यतत्त्वज्ञानमेवेत्युनाम् ॥
For Private and Personal Use Only