________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
जिज्ञासाविरहादनपेक्षिताभिधाने ऽपि यत्नाभावः स्थादित्यत पाह। अनुमरन्तः विषयविरकतया दुःखाभावमाधनोपायं जिज्ञासमाना इत्यर्थः । यद्यपि तत्त्वज्ञानस्योपायवाज्ञानात् तत्कोटिकसंशयो न जिज्ञासाहेतुम्तथापि दुःखहानोपायत्वं तत्त्वज्ञाने न वेति संशयस्तद्धेतरित्यर्थः । नन दुःखाभावोऽपि नावेद्यः पुरुषार्थ इत्यत श्राह। दुःखं जिहासवः निर्दुखः स्यामिति निरुपधीच्छाविषयत्वस्यैव पुरुषार्थ तन्त्रत्वादधिकस्य व्यर्थत्वात् दःखाभावं जानौयामितीच्छाया अभावादित्यर्थः । ननु दुःखाभावी न पुरुषार्थः सुखोपाधिप्रयुक्तच्छाविषयत्वादित्यत आह । निसर्गेति । निरुपाधिद्वेषविषयमित्यर्थः। सुखमनुद्दिश्यापि दुःखे द्वेषानिहासादर्शनादन्यथा दुःखहानार्थमेव सुखमिष्यत इत्यपि सुवचमिति भावः । दुःखे मानमाह। मर्वजनेति । श्राकर्णयन्तीत्यनेन तत्त्व ज्ञानस्य तदुपायत्वे शब्दो मानमित्युतम्। यद्यपि तत्त्वज्ञानमेवेति विशेष्यसङ्गत एवकारोऽन्ययोगव्यवच्छेदमाहेति व्युत्पत्तेरन्योपायतानिषेधो न युक्तः सामग्रौतः कार्यात्पत्तेः तथापि तत्त्वज्ञानपदं तत्महितमामग्रीपरम् तेन तत्त्वज्ञानसमवहितसामग्रौत एव दुःखहानमित्यर्थः । यद्वा तदुपायमेवेत्येवकारो भिन्नक्रमः तथा च विशेषणममभिव्याहतत्वादयोगव्यवच्छेद एवकारार्थ इति तत्त्वज्ञानस्यानुपायता निषिध्यते । यद्दा साक्षादनुष्ठेयपरमुपायपदं साक्षादनुष्ठेयोपायत्वं तत्त्वज्ञानस्यैव अन्येषामुपायत्वे ऽपि केषाञ्चिदननुष्ठेयत्वादनुष्ठेयानामपि माबादननुष्ठेयत्वात्। वस्तुतः सर्वत्र विरोधिव्यवच्छेद एवकारार्थः विरोधित्वं
For Private and Personal Use Only