________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्व विवेके सटीके
श्रात्मा भिन्न इति तत्त्वज्ञान तथात्मनः शरीरादिकं भिन्नमित्यपि तत्त्वज्ञानम् । देहेन्द्रियादिहानौपयिकमेवेति दर्शयति । प्रतियोगौति। नन्वहं गौर इत्यादिप्रकारकमात्मज्ञानमयत्नमिद्धमेवेत्यत आह । नैसर्गिकमिति । स्वाभाविकमयत्नमिद्धमिति यावत् । अहं सुखोत्यादिप्रकारकात्मज्ञानस्य तत्त्वज्ञानत्वे ऽपि न मिथ्याज्ञाननिवर्तकत्वमतस्तदप्यतत्त्वज्ञानमेवेति भावः। ननु नराम्यवादिनां भरौरे ऽइंप्रत्ययस्तत्त्वज्ञानमेवेत्यत उक्तं यदि नैरात्म्यमिति । श्रयत्नसिद्धत्वात् तेषामप्येतादृशं ज्ञानमनादेयमित्यर्थः। आत्मतत्त्वं विविच्यत इति । शरीरादिभ्यो नित्यः सुख(१)ज्ञानादिगुणवानात्मा विवेकेन भेदेनोपदर्यत इत्यर्थः ॥
भगौ० टौ० (२) प्रेक्षावत्प्रवृत्त्यर्थमभिधेयं प्रयोजनसम्बन्धं चाह । दहेति। इह ग्रन्थे । खल्ल यस्मादर्थ यत प्रात्मैव तत्त्वतो ज्ञेयोऽत श्रात्मतत्त्वं विविच्यते । तच मानमुच्यत इत्यभिधेयमुक्तम् । प्रयोजनमाह। तत्त्वज्ञानमेव तदुपायं मोक्षरूपदुःखहानोपायम् श्रतः खतः पुरुषार्थत्वाभावेप्यौपाधिकं तदस्येवेत्यर्थः । ननु वादिविप्रतिपत्तेस्तत्त्वज्ञानस्य तदुपायत्वं सन्दिग्धमिति कथं तदर्थिनः प्रवर्तरन्नित्यत आह । सर्वति। सर्वाध्यात्मविदोऽशेषतत्त्वज्ञाः । ननु सर्वजनमिद्धतया तदभिधानं व्यर्थमित्यत आह । अविद्वांसः तथापि तत्र
(१) नित्य सुख - पा० १ पु० । (२) 'भगौ० टी० ।' इत्यनेन भगीरथठकर कृता टीका इत्यवगन्तव्यम् । एवमयेऽपि ।
For Private and Personal Use Only