________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रात्मतत्त्वविवेके सीक
सुखी भवेयं दुःखौ वा माभूवमिति दृष्यतः ।
यैवाहमितिधौः सैव सहज सत्त्वदर्शनम् ॥ इति । सत्त्वम्(१) अात्मा कामयमानाश्च सुखादिकं विहितं निषिद्धं वा साधनमस्यानु तिष्ठन्तः कर्मापायानाचिन्वाना:(२) जन्मादिकमनुभवन्ति । यदि पुनरमौ किमपि नाहं नाहमास्पदमस्ति किञ्चिदपि वस्तु स्थिरं विश्वमेव क्षणभङ्गरमलौकं वेत्यवधारवेरन् न किश्चिदपि कामयेरन् न चाकामयमानाः केचिदपि प्रवर्तन्ते न चाप्रवर्तमाना अपि कर्माशयेन बध्यन्ते(२) न चान्तरेणापि कर्माशयं सम्भवो भोगस्येति भवति नैराम्यदर्शनं साधनमपवर्गस्येति केचित् । अपरे पुनरनादिनिधनमात्मानं न्यायादिना निर्णयन्तस्तदीयं तत्त्वज्ञानमेव न्यायागमाभ्यां मोक्षोपायमाचक्षत इति । · प्रभावजाने प्रतियोगिज्ञानस्य हेतुत्वात् प्रतियोगितयेत्यभिहितम् । परे तु अात्मनः शरीरादिभिन्नत्वस्येव शरीरादेरात्मभिन्नत्वम्यापि ज्ञानं मोक्षहेतुरिति तथोक्तमित्याहुः। नन्वाससारमनुवर्तमानोऽस्त्येव सर्वेषामहंप्रत्ययमन्तानो न पुनरपवर्गवातत्यत आह । तथाहीत्यादि । वस्तुभूतो देहादिभिन्नोऽनादिनिधनो ज्ञानादिमान् नैसर्गिक गौरीऽहमित्याद्याकारकमनादिदेहाभेदवासनासम्भूतमात्मज्ञानमतत्त्वज्ञानमेव असत एवात्मनो भानात् देहाभेदावगाहनाच्च देहसम्भेदावगाहि च कादाचित्कमहं सुखीत्यादिकं तत्त्वज्ञानं बलवता मिथ्याज्ञान
(१) सत्वः-पा० क्वचित् । (२) अनुतिछन्तो धर्माधर्मानाचिन्वाना इति क्वचित् । (३) सौव्यन्ते-पा० २ पु० ।
For Private and Personal Use Only