________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६५
तावतां च प्रतियोगिनामुपस्थितियदि गोत्वत्वेन तदाऽन्योन्याश्रय दति चेत् । न। अनादिवामनावशादेव तावतामुपस्थितेः अभिनवघटादिव्यतरपि घटत्वादिना वासनाविषयत्वात् । मैवम् । अनादिवामनावणाद्यावत्प्रतियोगिनामुपस्थितावपि प्रतियोगितावन्दकरूपाज्ञाने तावतामभावा निरूपणात् । न च तदकारणम् प्रमेयत्वादिरूपेणाऽप्यपस्थितानामभावनिरूपणापत्तेः । न च तादृशौ प्रतियोग्युपस्थितिम्तत्प्रतिबन्धि केति वाच्यम् । निर्विकल्पात्मकप्रतियोग्यपम्यितावष्यभावनिरूपणापत्तेः । तम्पात् प्रतियोगितावच्छेदकविशिष्ट प्रतियोगिज्ञानमभावनिरूपकमिह नाऽस्तीति कथमभावनिरूपणम् ।
रघु० टौ। अपि च यत्किञ्चिदितरच्यात्तिरतिप्रसका यावदितरव्यावृत्तिः यावदितरानवगतो दरवगमा । न च सर्वेषामितरेषां प्रातिविकरूपेणाश्वत्वादिना भान जन्मनां सहस्रणापि शक्यं न वा भवतां भाविकमश्वत्वादिकं ताद्रप्येणाप्रतीतानां वाऽगवां विकन्यवामनयाप्युपस्थापनं शक्यं, मेयत्वादिना चोपस्थितिर्न भेद निरूपणक्षमा प्रतियोगिताबच्छेदकरूपेण प्रतियोग्युपस्थिति विना तदसम्भवात् । यत्किंचिड़वेतरत्व तु गवान्तरमाधारणं गोमानेतरत्वेन भाने च गोत्वं भाविकमनुगतमुपेतव्यमित्याह । न चेति । निषेध्यं निषेधप्रतियोगिनं । अथ गवेतरेतरत्त्वमेव गोत्वं तत्राह न चेति । निषेधान्तरं गवेतरत्वरूपनिषेधविशिष्टम् । तक्रम् -
For Private and Personal Use Only