________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
आत्मतत्त्वविवेके सटीके
श्रयश्छलेन ज्ञानश्रिया परिहतः एवं किल परैरन्योन्याश्रय उच्यते अगोज्ञानात्तयावृत्तिजया अगोश्च महिषादिपदसङ्केत उपजीव्यातत्र चामहिषादिव्यावृत्तिस्तत्पदार्थः प्रमहिषादिश्च गौरिति गोपदमङ्केत उपजौव्य इत्यन्योन्यपदमङ्केतोपजीवनेनान्योन्यमङ्केतग्रह इत्यन्योन्याश्रयः यदा गोपदमङ्केतमुपजीव्य गोज्ञानं तदपजीवनादगोव्यावृत्तौ गोपदमझेतग्रह इत्यन्योन्याश्रय इति । तच्च न, गोपदसङ्केते हि ग्राह्येऽगोरूपाणां महिषादौनामानामेवोपजीवन, न तु तत्पदमोतस्य, नाप्यत्तरोत्तरान्योन्याश्रयः न हि गोपद सङ्केत उपजीव्योऽपि तु गोस्वलक्षणमेवेत्यादिना, तत् हस्तलाघवेन जतुगुडकस्यान्यत्र सञ्चारेण ग्राम्यजनस्य व्यामोहनं नत्वस्माकं, अर्थप्रतौतावेवान्योन्याश्रयस्योक्तत्वात् मङ्केते सञ्चार्य तदृषणं कल्पितदुय्यरूपं छलमित्यर्थः । यहा इत्थं मङ्क तेऽन्योन्याश्रयसञ्चारणं अपोहवादिन इव यस्यापि मते गोवजातिमति गोपदं शामिति वाक्यात् सङ्केतग्रहः तस्याप्यन्योन्याश्रयः शाब्दज्ञानस्य सङ्केतग्रहाधौनत्वात् । अथ नानादेशकालानुगतं माधारणं रूपं पुरस्कृत्य गोपिण्डेषु व्यवहाराछक्रिग्रहो न वाक्यादतोनान्योन्याश्रयः, तदा ममाऽप्यगोव्यावृत्त्यादिशब्दमनपेक्ष्य तद्विजातीयाशेषव्यावृत्तौ गोशब्दवाच्यतां प्रतिपद्यत इति परिहारः सङ्केते मञ्चारणाच्छलमित्यर्थः । ननु नाऽन्योन्याश्रयो निषेधान्नरस्यैव निषेध्यत्वात् तस्य चाऽनादिवासनावशादेवोपस्थितेः। न च तत्राऽपि निषेधान्तरमेव निषेध्यमित्यनवस्था । अनादित्वेन परिहारात् । अथैकगोव्यक्त्यन्योन्याभावोऽन्यस्यां गोव्यकावस्तौति मा गौर्न स्यादिति यावङ्गोव्यक्त्यन्योन्याभाववतामगोपदार्थत्वं वाच्यम्
For Private and Personal Use Only