________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२६१
भगौ • टौ ०। ननु यद्यप्यगोपोढोयमितिनास्तिपतौतिः - - - किन्त गौरित्येव तथापि तम्य विशिष्टज्ञानतया विशेषणविशेष्य सम्बन्धवद्विशेषणत्वमपि विषयः तच्चातयावृत्तिधौजनकत्व मिति तस्य व्यावृत्तिबुद्धिविषयत्वं सिद्धमित्याह । स्यादेतदिति । तदपसर्जनौभूतः तद्गुणीभूत इत्यर्थः। अन्यथेति। विधिरूपस्य गोत्वादिसामान्यस्य विशेषणत्वमपि व्यावृत्त्यविषयकत्वे विशिष्टज्ञानस्य न स्यादित्यर्थः । एतदनुरूपं दृष्टान्तमाह । ततो यथेति । इन्दौवरं नौलोत्पलम् । पुण्डरीकं सितपद्मम् । एवमपि विधिरूपस्फरणं प्रकृतं मिद्धमेवेत्याह । अस्विति। तावच्छब्देन ह्यनुपगमं सूचयति । तद्वौजन्त विशिष्टज्ञाने यद्यपि विशेषणं विषयस्तथापि तस्य विशेषणत्वं न भामते तम्यातड्यावृत्तिधौजनकत्वरूपस्य विशिष्टज्ञानानन्तरं भानात् विशेषणत्त्वे ज्ञात एव तत्र व्यावृत्तिभानात् अन्योन्याभावग्रहस्य वैधर्म्यग्रहाधीनत्वात् । न च दण्डपुरुषसम्बन्धा इति समूहालम्बनाद्दण्डौतिज्ञानस्याविशेषापत्त्या तस्य व्यावृत्तिविषयत्वं वाच्यम् । विशिष्ट ज्ञानस्य विशेषणज्ञानजन्यतया कारणाधीनस्यैव विशेषणताविशेषस्य सत्त्वात् । अन्यथा व्यावृत्त्याऽपि समूहालम्बनादविशेषापत्तेः । अन्यथेति । पदि विशिष्टज्ञाने विधिरूपयोविशेषणविशेष्ययोर्भानं न स्यात्तदा व्यावृत्तिधीरपि न स्यात् ॥
रघु० टौ. । विशेषणं तावदितरव्यावृत्तिबोधजनक विशेषणजन्या च विशिष्टबुद्धिरेवेति तस्यामवश्यमितरव्यावृत्तिर्भासते इत्याशङ्कते। म्यादेतदिति । व्यवच्छेदकत्वं विशेषणत्वं, विशेषणं हि नाट होतं नाप्यग्टहीतविशेष्यसम्बन्धमन्यव्यावृत्तिबुद्धिमाधत्ते परन्त
For Private and Personal Use Only