SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० आत्मतत्त्वविवेके सटौके ननु विशेषण व्यवच्छित्तिप्रत्ययं जनयति, अन्यतोव्यावृत्तिप्रत्यये तु किमायातमत आह । न चेति । स्फुट तर व्यावृत्तिप्रत्यये स्थानदृष्टांतेन (2) गवादिप्रत्ययानामपि व्यावृत्तिविषयत्वमाह । यथेति। इन्दीवर नौलोत्पलम् पुण्डरीक सितांभोजम् । नौलधवलादिविधिमेखरा नौलधवलादिविधिप्रधाना । तद्गर्भार्भकायमाणस्तक्रोवत्तौं । तथा सर्वत्र गोमहिषमातङ्गादिप्रतीतावपौत्यर्थः । अत्र सम्पतिपत्तिमाह। अस्विति । स्फुरितस्य विधेरचौकत्व यद्यपि तव हदि वर्तते तथापि विधिस्फुरणं स्वीकृतमेव त्वयेति तावत्पदार्थः । प्राथमिकविशिष्टज्ञाने निषेधो न स्फरतीत्यनुशयस्तावत्पदार्थ इति केचित् । तन्न । प्रथमविशिष्ट ज्ञानेपि व्यावृत्तिस्फरणात् । तदनं गुणकिरणावल्यामाचार्यः। अतड्यावृत्तिर्वैशिष्ट्यामिति । वैशिष्ट्यं च प्रथमविशिष्टज्ञानेपि भामत एव । यत्त विशेषणत्त्वज्ञाने व्यावृत्तिप्रत्ययो न विशिष्टज्ञान इति । तन्मन्दं । विशेषणात्वज्ञाने हि व्यावर्तकत्वं स्फुरेन्चत व्यावृत्तिः । यदप्यन्योन्याभावग्रहे वैधय॑ज्ञानं तन्त्रमिति । तदपि न । अन्योन्याभावत्वेन तद्हे तथैव, न तु वैशिष्यरूपतयाऽन्योन्याभावग्रहे तन्त्रमितिलीलावतीकण्ठाभरणे एव विस्ततम्(१)। अवच्छेद्यावच्छेदकयोरिति । विशेषणविव्ययोर्विधिरूपयोरित्यर्थः । व्यवच्छित्तिय॑वच्छित्तिप्रत्ययः । यथेति । नौलं नौलत्वमुत्पलमुत्पलत्वं च यदि न भासते तदाऽनौलादनुत्पलात् व्यावृत्तिर्न भासत एवेत्यर्थः । (१) विवतम् । पा० २। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy