________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
निराकुरुते । भवेदिति । गगरेव गोवविशिष्टः । श्रश्वस्वश्वत्वविशिष्टो नतु गोत्वविशिष्ट इत्यर्थः । गोत्वस्यैवाश्ववव्यावृत्त्यस्फुरणे कथं ततोपि नियम इति चेत् अत्राह । श्रन्यथेति । श्रगोव्यावृत्तेरप्यनश्वव्यावृत्तितोव्यावृत्तिः स्फुरति न वा । आद्ये निवृत्त्यन्तरा दिति । द्वितीये निवर्त्यति । स्वरूपेणैव भिन्ना निवृत्तिर्भासते तेन प्रवृत्तिनियम इति यदि, तदा विधेरपि तादृशस्यैव भानान्नियमो भविष्यतीत्यत श्राह । स्वरूपेति ॥
स्वरूपभेद
स्वान्यापोहोऽन्यापोढस्वरूपत्वाद्विधे
रिति चेन्न । अलोकपक्षे तदभावात् तस्य स्वरूपविधावनलोकत्वप्रसङ्गात् । स्वलक्षणस्य च विकल्पानारोहात् । अपि च गां बधानेति देशितो गवि प्रवृत्तो नावे, तदप्रतीतेः । यदा त्वश्वमुपलप्स्यते तदा तच प्रवृत्त्युन्मुखोपि गोरभावं प्रतौत्यैव निवर्त्स्यतौति किमनुपपन्नम् ।
शङ्क ० टौ ० । स्वरूपभेद एवेति । यः स्वरूपभेदो गोत्वं त्वयोच्यते स एवान्यापोहोऽतयावृत्तिलक्षण: यस्तु विधिः मोऽन्यापोहोऽन्य एव तद्भानं शब्दान्निराकुर्म इत्यर्थः । श्रलोकपक्ष इति । श्रन्यापोहत्वेनाभिमतं गोत्वादि : (१) स्वरूपभेदस्त्वयोच्यते । तद्यद्यलौकं तदा कथं स्वरूपभेदः न हि निःस्वरूपमलोकं स्वरूपं भवतीत्यर्थः । तदभावात् स्वरूपभेदाभावात् । तस्येति । श्रन्यापोह
(१) अन्यापोहलक्षणो यो गोत्वादिः -- पा० २ पु० ।
For Private and Personal Use Only