________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगात्मतत्त्वविवेक मटोक
शङ्क० टौ. । ननु चाघटो नास्तीति प्रतीते: प्रवर्तकत्वे तवायमनुशयो यदच घटनित्तिरपि म्फुरति घटान्तरापेक्षयाघटस्याप्यघटत्वादघटम्यैव निवृत्तिरिति प्रतीतेः प्रवर्तकत्वे तु नाय दोष इत्याह । अघटस्येवेति । नेति । अघटम्यैवेति नियमार्था घटनिवृत्तिप्रतिक्षेप एवाऽन्यथा पूर्वदोषतादवस्यात्, घटनिवृत्तिप्रतिक्षेपश्च घटोयमितिज्ञानपर्यवमायौ, तत्र च घटत्वमेव विधिरूपं स्मरेत् तन्मते मविकन्यकेन स्खलक्षणामस्पर्शादित्यर्थः । शाब्दं ज्ञानमन्यनित्तिमुखेनैव जायत इत्यवश्यमभ्युपगन्तव्यमन्यथाऽन्यपराच्छब्दादन्यत्रापि प्रवर्ततेति शङ्कते । निवृत्तेर म्फरण इति । भवे देवमिति । गोपदार्थ नाश्व इति कथमश्वं बध्नौयादित्यर्थः । गौ”रिति । गोपदवाच्योगौरश्वपदवाच्योऽश्व इति कथमन्यपराछब्दात् अन्यत्र प्रवृत्तिरित्यर्थः । अन्यथेति । निवृत्तावपि निवृत्तिप्रतियोगि निवृत्यधिकरणादिभ्यो यदि निवृत्तिः म्फरेत्तदाऽनवस्था तदस्फरणेऽश्वव्यावृत्तिग्रहेपि गोपदादश्वे प्रवृत्तिः स्यादेव निवृत्तेः साधारण्येनैव स्फुरणात् । स्वरूपमांकर्य दति । प्रतियोग्यादिसाधारण्येनैव निवृत्ते: म्फरणादित्यर्थः । प्रवृत्तीति । निषेथ्योश्वोनिषेधाधिकरण गौरिति तवापि मते गोशब्दादतड्याच - त्तिपरादप्यतगोचरप्रवृत्त्यापत्तेरित्यर्थः । ननु निवृत्तिः स्वत एव विलक्षणा तत्र कि निवृत्त्यन्तरस्फरणेनेति यदि तदा गोत्वाद्यपि स्वत एव विलक्षणमिति तत्स्फरणो कथमन्यत्र प्रवृत्तिः स्थादिति समानमित्याह । स्वरूपेति । तथा किं न स्यादिति । प्रवृत्तेनियमः किन्न स्थादित्यर्थः ॥
For Private and Personal Use Only