________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
न ह्यगोपोढायमिति विकल्पः किं तु गौरिति, ततोऽन्यनित्तिमहं प्रत्येमौत्येवमाकाराभावेऽपि निवत्याकारस्फरणं यदि स्यात् को निर्यात्तप्रतीतिमपलवौत, अन्यथा त्वतत्प्रतिभानं तथेति व्यवहतिरिति गवाकारे चेतसि तुरगबोध इत्यस्तु । न च निवृत्तिमात्रप्रतिभामेऽपि प्रवृत्तिसम्भवः न ह्यघटो नास्तीत्येव घटाएँ प्रवर्तते, अपि तु घटोऽस्तौति ।
शङ्क० टौ० । एतदेवाह । न हौति । अगोपोढोयमिति । अगोव्यावृत्त इत्यर्थः । तत इति । निवृत्तेर्न प्राधान्येन भानं नाण्यपसजनतयेत्यर्थः। अज्ञानविषयस्यापि तज्ज्ञानविषयताकल्पने विपक्षे दण्डमाह। अन्यथेति। तथा च सर्वज्ञानं सर्व विषयं स्यादिति भावः । निवृत्तिस्फुरणे दोषान्तरमाह। न चेति। तन्मते विकल्पेन खलक्षणासस्पन्मिात्रेत्युक्तम् । प्रवर्तकानुभवलक्षण्यमाह । न हौति । प्रवर्तकज्ञानस्वरूपमाह । अपि विति। अनुभव एवात्र माहौत्यर्थः ॥
भगौ• टौ । तदेव विशदयति । न हौति। अपोढो व्यावृत्तः। किं विति। अगोव्यावृत्तिमजानतोऽपि विध्याकारेण गोफरणमित्यथः । यदि तु यद्यत्र जाने न भासते तदपि चेत् तद्विषयः तदा गोबुद्धौ तुरगोऽपि विषयः स्थादित्याह । अन्यथेति । अत्यन्ताभावरूपयावृत्तिभाने दूषणान्तरमाह । न
For Private and Personal Use Only