________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
निष्कम्पप्रदीप कुझलेषु निपुणं निभालयन्तोऽपि न विरुद्धधर्म संसर्गमौ शाम हे, श्रथ च प्रत्यभिज्ञानमवधूय तच भेद एव पदं विधत्त इति चेत् ? कस्य प्रमाणस्य बलेन । श्राश्रयनाशस्य हुताशननाशहेतुत्वेन विद्या तत्वात् तस्य चाच प्रतिक्षणमुपलब्धेः वर्तितैलयोरुत्तरोत्तर मपचौधमानत्वात् पूर्वस्य नाश उत्तरोत्पादश्च न्यायमिड इति चेत् ! नन्वयं प्रत्यनौकधर्मसंसर्ग एव, नष्टत्व नष्टत्वयोराश्रयनाशा नाशयोर्वा एकच तेजस्यनुपपत्तेः ।
,
शङ्क० टौ । ननु भेदप्रवृत्तेरतभ्यं विरुद्धधर्मसंसर्ग इत्येव नियमो नामित निष्कम्पप्रदौपे भेदे सत्यपि विरुद्धधर्मसंसर्गभावादित्याह । निष्कम्पेति । कस्येति । प्रदौपे केन प्रमाणेन भेदः सिद्ध इत्यर्थः । भेदमाधकं प्रमाणमुपन्यस्यति परः श्राश्रथ नाशस्येति । श्राश्रयोऽत्र निमित्तकारणमिन्धनादिः । प्रतिक्षणमिति । सूक्ष्मकालोपलक्षणम् । पूर्वस्य दौपस्य । एवमुत्तरम्येति । न्यायसिद्ध इति । दौपो नाशप्रतियोगी नष्टाश्रयत्वादिति न्यायमिद्ध इत्यर्थः । नन्वयमिति । पूर्वस्य नाश उत्तरस्योत्पाद इति वदता त्वयैव नष्टानष्टत्वलक्षणविरुद्धधर्मसंमर्गः स्वीकृत इत्यर्थः । श्राश्रयनाशानाशयोरिति । नष्टाश्रयत्वानष्टाश्रयत्वयोरित्यर्थः ॥
For Private and Personal Use Only