________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
आत्मतत्त्वविवेके मटौके
माध्यत्वेनामिद्धरित्याह । नापौति। व्याप्तिग्रहः इत्यनुषज्यते । मिद्धौ वेति। तद्ग्राहकादेव मानात् क्षणभङ्गमिद्धिरित्यर्थः । बौद्धमतेन व्यभिचारमाह। अद्यतनेति । श्वम्तनकपालमालाया घटं प्रति भविष्यत्तामात्रेण व्यापकत्वेऽपि हेत्वन्तरापेक्षवादित्यर्थः ।
रघु० टी० । परेषां तादात्मयत दत्पत्तिभ्यामेव व्याप्यत्वग्रहायापकत्वमपि तदात्मकतत्करण योरेव ग्रह्यते । न च ध्वमः प्रतियोग्यात्मेति प्रागेवावेदितं न वा प्रतियोगिकारणमिति नतड्यापकत्वग्रह इत्याह । श्रतादात्म्यादिन्यादि । साहित्य नियमो हि देशतो वा स्यात्कालतो वा ? देशोपि भयोगौ वा ममवायौ वा ? नाद्य. ग्टहे जातस्यापि प्राङ्गणे विनाशोपगमात् । नेतरः श्राश्रयनागोपि विनाशोपगमात् । द्वितीयेत्वाह विरोधितयेशादि । विरोध: एककालानवस्थायित्वम् ।
एतेन सापेक्षत्वे व्यभिचारोऽपि स्यात् विनाशहेतृना प्रतिबन्धवैकल्यसम्भवादिति परास्तम् । कपालसन्ततितुल्य योगक्षेमत्वात् विनाशस्येति ।
अस्तु तर्हि चरमः पक्षः तथाहि विनाशो न जायते अभावत्वात् प्रागभाववत् जातोऽपि वा निवर्तते जातत्वात् घटवदिति । नैतदेवम् । प्रागभावो जायते अभावत्वात् विनाशित्वाहा ध्वंसवत् घटवडा,
For Private and Personal Use Only